पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
244
अलंकारमणिहारे

व्याजेन निन्दामुखेन स्तुतेः । एवं च कर्मधारयतृतीयातत्पुरुषाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वमिति वेदितव्यम् ॥

 आद्या यथा--

 सुतदारप्रीणनविधिकृतदाक्ष्यस्त्वं गृहे वससि धन्यः । न भजसि भुजङ्गभूधरविभुसेवायासवैशसं जातु ॥ १०३१ ॥

 अत्र केवलसांसारिकस्य कस्यचिद्व्याजरूपा त्वं धन्य इति स्तुतिर्बाधिता सती तस्य श्रीनिवाससेवावैधुर्यप्रयुक्तनिन्दायां पर्यवस्यति ॥

 द्वितीया यथा--

 त्वत्तः को विजुगुप्सो मत्तः कोऽन्यो रमेश ! निर्लज्जः । शश्वदघं कः क्षमतां शश्वत्क्षान्तेऽपि तत्र कः कुरुताम् ॥ १०३२ ॥

 तत्र तस्मिन् पुनःपुनः कृते अघे क्षान्तेऽपि शश्वत् मुहुर्मुहुः अघमित्यनुषज्यते । अघं अपराधं कः कुरुताम् । अतस्त्वं विजुगुप्सः अहं निर्लज्ज इति भावः । अत्र को विजुगुप्स इति निन्दा बाधिता सती रमासखस्य क्षमाभूमा निस्समान इति स्तुतौ पर्यवस्यति ॥

 अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहिम्ना प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति, तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठत इत्यवधेयम् ॥