पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
245
व्याजस्तुतिसरः (३२)

 इयं चालंकारान्तरसंकीर्णा यथा--

 हृद्यायामपि लक्ष्म्यामतुलां तुलसीं परां च वनमालाम् । आश्लिष्टकन्धरां त्वं तनुषे सर्वेश्वरोऽसि किं ब्रूमः ॥ १०३३ ॥

 अतुलां शीलवयोवृत्तादिभिस्स्वस्याननुरूपां निस्समामिति तु वास्तवार्थः । परां परकीयां उत्कृष्टां च । सर्वेश्वरोऽसि ‘पथश्शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम्’ इत्युक्तरीत्या सर्वेश्वरस्य तव सत्पथप्रवर्तनमेवोचितं नासत्पथे स्वयंप्रवर्तनमिति भावः । वस्तुस्थितिस्तु ‘वक्षस्स्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वैश्वर्यं कथयतितरां रङ्गधाम्नस्तदास्ताम्' इत्युक्तप्रक्रियया तुलसीवैजयन्तीलक्ष्मीभूषितवक्षस्स्थलतया अखिलजगदधीश्वरोऽसीति । अत्र भगवतस्समासोक्त्या पल्लविकधुरीणव्यवहाराश्रयत्वप्रतीतिः तन्मूला निन्दा स्तुतैौ पर्यवस्यति ॥

 यथावा--

 सदरः करस्तवैकस्साध्वसिताऽऽढ्यः परस्तदपि शौरे । अभयप्रदपाणिं त्वामाहुस्सुलभा हि सुकृतिनां कीर्तिः ॥ १०३४ ॥

 सदरः सभयः सशङ्खश्च । साध्वसमस्यास्तीति साध्वसी तस्य भावः साध्वसिता । तया आढ्यः । अत्रार्थान्तरन्यासपरिपोषिता भगवतो निन्दा दुष्कृद्विनाशनैकतानशङ्खनन्दकादिदिव्यायुधपरिकरधारितया सकललोकाभयप्रदानधौरेय इति स्तुतौ पर्यवस्यति ॥