पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
215
अप्रस्तुतप्रशंसासरः (२९)

न संभवति न हि मधुकरे नीलवर्णत्वं दोषः अरविन्दाश्रयणेनोज्जीवितत्वं गुणः येन तत्प्रशंसाखेदनिरासाय कल्पेत । तस्माद्वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्षणीयम् । पूर्वत्र अंशे इह तु साकल्येनेति विशेषः ॥

 यथावा--

 ननु चातक सुमहांस्त्वं स्तोकक इति मा स्म गाः क्वचिद्दैन्यम् । अमृतार्थी हरिमेव श्रयसे त्वत्तोऽधिको द्विजः कोऽन्यः ॥ ९९३ ॥

 स्तोककः अत्यल्पः स्तोकशब्दादल्पार्थे कन् । पक्षे-- स्तोकं कायति रौतीति स्तोककः चातकः ‘स्तोककश्चातकस्समौ' इत्यमरः। अमृतार्थी सलिलार्थी तृषित इत्यर्थः । पक्षे— निश्श्रेयसार्थी हरिं मघवन्तं भगवन्तं च त्वत्तोऽधिकः द्विजः खगः विप्रश्च । कः अधिकः न कोऽपि । अत्र चातकस्य दैन्यनिवारणकारणतयोपात्तं विशेषणं न संभवति । न हि चातके स्तोककत्वं दैन्यहेतुः न वा प्रथमोदबिन्दुकाङ्क्षितया मघवदाश्रयणमुत्कर्षहेतुः । येन तत्प्रशंसया वार्येत दैन्यं, अतो वाच्यार्थस्योक्तरीत्या प्रतीयमानतादात्म्यं विशेष्यविशेषणांशयोरुभयोरप्यपेक्ष्यते ॥

 यथावा--

 नित्यं मराळ शुचिरसि निपुणतरस्त्वं विषामृतविवेके । दक्षिणवामौ पक्षौ द्वौ श्रयसेऽधःकृतोसि तद्विधिना ॥ ९९४ ॥