पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
216
अलंकारमणिहारे

 हे मराळ! हंस! नित्यं शुचिः शुभ्रः । पक्षे—' योऽर्थे शुचिर्हि स शुचिः’ इत्युक्तरीत्या परस्वापहाराद्यभिसन्धिविधुर इत्यर्थः । असि । विषामृतयोः नीरक्षीरयोः ‘विषं तु गरले तोये’ इति, ‘अमृतं यज्ञशेषे स्यात्पीयूषे सलिले धृते’ इति च मेदिनी । विवेके पृथक्करणे । पक्षे-- विषामृतशब्दौ गौण्या वृत्त्या असदर्थसदर्थपरौ । तयोः विवेके सम्यग्विमर्शे निपुणतरः । दक्षिणवामौ अपसव्यसव्यौ सरळप्रतिकूलौ च ‘दक्षिणो दक्षिणोद्भूतसरळच्छन्दवर्तिषु' इति मेदिनी । ‘वामा वध्वां सव्यरम्यप्रतीपेष्वेषु वाच्यवत्” इति रत्नमाला । पक्षौ गरुतौ सिद्धान्तौ च संश्रयसे तत् तस्मात् विधिना ब्रह्मणा दैवेन च अधःकृतः वाहनतयाऽधरीकृतः । पक्षे-- सर्वैर्न्यक्कृतः नरके पतितो वा असि । अत्राप्रस्तुतमराळवृत्तान्तेन भगवत्तदन्यपरसिद्धान्तद्वयस्यापि तुल्यतया स्वीकर्तुः कस्यचिद्बहुशाखमतेः कोविदंमन्यस्य गुणप्रख्यापनपूर्वकमुपालम्भो द्योत्यः । तत्राप्रस्तुते मराळे शुचित्वादिना प्रशंसाया वा दक्षिणवामपक्षाश्रयणादिना निन्दाया वा असंभवादुपदर्शितप्रकारेण वाच्यार्थस्य द्योत्यार्थतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्षणीयम् ॥

 यथावा--

 अपि शाखिनो जटाला वटा इमे नीरसे फले रक्ताः। तत्फलकामैरेव स्तोमैः पततां च बत निषेव्यन्ते ॥ ९९५ ॥

 इमे वटाः न्यग्रोधतरवः वक्ष्यमाणरीत्या फलकामिन इति च व्यज्यते । शाखिनः शाखाशालिनः जटाला अपि शिफान्विताश्च सन्तः नीरसे रसविधुरे फले स्वकीयफले रक्ताश्शो-