पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
210
अलंकारमणिहारे

 हे माकन्द! रसालतरो! त्वं धन्यः । धन्यतामेवाह-- माधवेति । माधवस्य वसन्तस्य सक्त्या सुमतः सुमैः सार्वविभक्तिकस्तसिः । पक्षे-- माधवे भगवति सक्त्या शोभनं मतं यस्य स तथोक्तः त्रय्यन्तनिष्णातसिद्धान्तानुयायीत्यर्थः । यद्वा-- सुमत आमोदमित्यत्र सुमते इति छेदः । हे सुमते! महाप्राज्ञेति माकन्दविशेषणम् । आमोदभरं आनन्दातिशयं एषि प्राप्नोषि । अतिरागिणमपि अतिरक्तिमशालिनमपि पल्लवं किसलयं अचिरात् हरितस्य भावः हरितत्वं हरिद्वर्णत्वं विन्दतीति तथोक्तं विन्दतेः क्विप् । रचयसि च । किसलयावस्थायां लोहितत्वं पत्रावस्थायां हरिद्वर्णत्वं च दळस्य प्रसिद्धम् । नवदळं किसलयं युवदळं पत्रमिति विभागः । अन्यत्र न केवलं स्वयं धन्यः । किंत्वाश्रितानविरक्तानप्युज्जीवयसीत्याह-- अतिरागिणमिति । अतिरागिणं विरक्तिशून्यं पल्लवं षिद्गमपि हरेः तत्त्वं याथात्म्यं हरिरूपं तत्त्वं प्रामाणिकं वस्तु वा । हरिसंज्ञकं तत्त्वं परमात्मानं वा वेत्तीति तथोक्तम् । विदेः क्विप् । ‘तत्त्वं स्वरूपे परमात्मनि' इति मेदिनी । ब्रह्मविदमित्यर्थः । रचयसि च । अत्राप्रस्तुतमाकन्दतरुप्रशंसा प्रस्तुतस्वाश्रितोज्जीवयितृब्रह्मवित्प्रशंसायां पर्यवस्यति । अत्र विशेष्यभूतो माकन्दशब्दोऽश्लिष्टः ॥

 एवंजातीयकेषु पद्येषु श्लिष्टविशेषणाऽप्यप्रस्तुतप्रशंसैव । न तु समासोक्तेस्तदनुग्राहकत्वं, तस्या एतदलंकारप्रत्यनीकाकारतयाऽनुग्राहकत्वायोगात् । यत्तु काव्यप्रकाशे समासोक्तेरेतदनुग्राहकत्वमभिहितं तन्न, प्रतीयमानवृत्तान्तस्य प्रस्तुतत्वे अनुग्राहिकायास्समासोक्तेरेवानुन्मेषात् । प्रस्तुतस्य वाच्यतायामेव तदभ्युपगमात् । अप्रस्तुतत्वे त्वनुग्राह्याया अप्रस्तुतप्रशंसाया एवाभावात् । अप्रस्तुतवृत्तान्तस्य वाच्यतायामेव तदङ्गीकारात् ।