पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
211
अप्रस्तुतप्रशंसासरः (२९)

तस्मात् श्लिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्तदुक्तिस्संगमनीया । इयं च सादृश्यमूलाऽप्रस्तुतप्रशंसोच्यते । अस्यां च वाच्यार्थः क्वचित्प्रतीयमानार्थताटस्थ्येनैवावतिष्ठते । क्वचिच्च स्वगतविशेषणान्वययोग्यतामासादयितुं प्रतीयमानभेदमपेक्षते । क्वचिच्च प्रतीयमानमपि क्वचिदंशे वाच्यतादात्म्यम् । वाच्यं च क्वचिदंशे प्रतीयमानतादात्म्यमपेक्षते ॥

 तत्राद्या यथा--

 उच्छ्रितभूधरशिखरं कृच्छ्रादाढौकितोऽपि मार्जारः । समुदग्रव्याघ्रतुलामाघ्रातुं वा कदाऽपि किं प्रभवेत् ॥ ९८५ ॥

 अत्र प्रस्तुतो मार्जारवृत्तान्तः स्वल्पप्रज्ञैः प्राज्ञंमन्यैरिदमेव त्रयीशिरस्सु जगत्कारणतया प्रतिपादितं परं ब्रह्मेति हठाज्जल्पितमपि देवतान्तरं सर्वकारणत्वनिरुपाधिकसर्वेश्वरत्वादिना त्रयीशिरस्सहस्रसन्ततजोघुष्यमाणमहामहिमोन्नतेः श्रीपतेः परस्य ब्रह्मणस्साम्यगन्धस्यापि दविष्ठमेवेति प्रस्तुतेऽर्थे पर्यवस्यति । अत्र वाच्यभूतानामर्थानां मार्जारे संभवादुपपादितप्रतीयमानार्थानध्यारोपेणैव वाच्यप्रतीतिः ॥

 द्वितीया यथा--

 भ्रमर क्षमस्व कतिचन निमिषान्बिसकुसुमकोशबन्धमिमम् । जलरुहदलविदलयिता रविरिह हरिहरिति किरति किरणगणम् ॥ ९८६ ॥