पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
11
श्लेषसरः (२८)

श्रियः अधिभूः नायकः, इदं भगवत्पक्षे विशेष्यम् । अन्यत्र शुभकृत् कल्याणकरी । जगतां अधिभूरिति योजना । भुवनानामधीश्वरीत्यर्थः । उदन्वत्सुता सिन्धुनन्दिनी श्रीः, इदं विशेष्यम् । अन्यत्सुगमम् ॥

 यथावा--

 मदीये रामेश्वरविजये रङ्खराजविलासे च चम्पूप्रबन्धे--

 हृदयेहिराजभासुरमञ्चमुदारं सदा गिरां प्राप्त्यै । कलयेहितं ददानं धाम पुराणं तुरङ्गराजाख्यम् ॥ ८१८ ॥

 अहिराज एव भासुरमञ्चो यस्य तं उदारं वदान्यं हितं श्रेयः ददानं, उदारमित्येतत् हितविशेषणं वा, निश्श्रेयसमिति तदर्थः। रङ्गराजाख्यं पुराणं धाम तुशब्दोऽवधारणे ‘स्युरेवं तु पुनर्वेै वेत्यवधारणवाचकाः' इत्यमरः । धामैवेत्यर्थः । सदा गिरां प्राप्त्यै हृदये चित्ते कलये ध्यायामि । अन्यत्र हृदये इत्यत्र हृत् अये इति च्छेदः । हीति भिन्नं पदं प्रसिद्ध्यर्थकम् । अये हृत्! हे हृदय! राजभासुरं चन्द्रबिम्बे प्रकाशमानं चन्द्रवद्विशदमिति वा । अञ्च मुदा अरं इति छेदः । कलया अल्पकालेनैव ईहितं ईप्सितं ददानं तुरङ्गराजाख्यं पुराणं धाम श्रीहयग्रीवमित्यर्थः । सदा गिरां प्राप्त्यै मुदा अञ्च इति योजना । आराधयेत्यर्थः । अञ्चेर्लोण्मध्यमैकवचनम् । अनयोरुदाहरणयोस्स्तव्यत्वेन प्रकृतयोश्श्रीश्रीनिवासयोः श्रीरङ्गराजहयग्रीवयोश्च श्लेषः । स च प्रथमे उदाहरणे अभङ्गः द्वितीये सभङ्ग इति ध्येयम् । एवं वक्ष्यमाणोदाहरणेषु यथासंभवं द्रष्टव्यम् । वक्तव्यान्तरं तूपरिष्टाद्वक्ष्यते ॥