पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
अलंकारमणिहारे

 यथावा--

 प्रथिमहितं प्रोद्यद्धनमित्रद्योतं महायुधं हृदये । सारसनाभं कलये सुदर्शनं साधुचक्रराजं तम् ॥ ८१९ ॥

 अत्र भगवतः सुदर्शनस्य च प्रकृतयोरेव श्लेषः । तथाहि, भगवत्पक्षे-- प्रथिम्ने पृथुत्वाय आश्रितप्रख्यापनायेति यावत् । हितं ‘चतुर्थी तदर्थ’ इत्यादिना समासः । प्रथिम्ना प्रख्यातत्वेन हितमिति वा । सुदर्शनपक्षे प्रथिः नेमिः तेन महितं ‘नेमिस्स्त्री स्यात्प्रथिः पुमान्' इत्यमरः । प्रोद्यन् प्रावृडारम्भे विजृम्भमाणः घनः मेघः तस्य मित्रं सुहृत् द्योतः प्रकाशो यस्य तं प्रावृषेण्यघनाघनश्यामलमित्यर्थः । पक्षे-- प्रोद्यन् उदयमानः घनस्सान्द्रः अविकलप्रकाश इति यावत् । यः मित्रः भानुः तस्य द्योत इव द्योतो यस्य तं उद्यद्भानुनिभप्रभमित्यर्थः । ‘सुदर्शनं भास्करकोटितुल्यम्’ इत्युक्तेः । महायुधं महान्ति आयुधानि चक्रादीनि यस्य तम् । पक्षे-- महती युत् युद्धे यस्य तं ‘समित्याजिसमिद्युधः' इत्यमरः । यद्वा-- भगत्पक्ष एव महती युत् यस्येति । सुदर्शनपक्षे तु महान्ति आयुधानि शङ्खं चक्रं सचापं परशुमसिमिषुं शूलपाशाङ्कुशाग्नीन् बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तम्’ इत्युक्तरीत्या बह्वायुधधारिणमित्यर्थः । सारसं पद्मं नाभौ यस्य तम् । गड्वादेराकृतिगणत्वात्सप्तम्याः परनिपातः। भगवत्पक्षे इदं विशेष्यम् । पक्षे— अरैः परितोऽर्पिताभिश्शलाकाभिस्सह वर्तत इति सारः ‘स्फुरत्सहस्रारशिखातितीव्रम्’ इत्याद्युक्तेः ‘अरं शीघ्रे च चक्राङ्गे’ इति मेदिनी । नाभ्या मध्यरन्ध्रेण सह वर्तत इति सनाभः ‘अच्प्रत्यन्वव' इत्यत्र