पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
99
श्लेषसरः (२८)

 इन्द्रपक्षे-- स्वरूपासितभाः स्वरुणा वज्रेण ‘शतकोटिस्स्वरुः’ इत्यमरः । उपासिता स्वस्मिन्नुपवेशिता तेन सेविता वा ‘आस उपवेशने' अस्माण्णिजन्तात्कर्मणि क्तः । भाः प्रभावो यस्य स तथोक्तः वज्रायुधोन्मिषितप्रभाव इत्यर्थः । ‘भाः प्रभावे मयूखेऽस्त्री’ इति मेदिनी । द्युमणिः स्वर्लोकाभरणभूतः 'द्यौः स्त्री स्वर्गे च गगने' इति मेदिनी । नलिनस्य सहस्रपत्रस्य दलानीव ईक्षणानि यस्य स तथोक्तः सहस्राक्ष इति भावः । शूरः विक्रान्तः स चासौ विख्यातश्च वृत्रादिमहासुरवधप्रख्यातशौर्य इति भावः । देवोत्तमः निर्जरेषु श्रेष्ठः । सदा आत्मनि बिडौजाः इति छेदः । बिडौजाः इन्द्रः सुतरां आत्मनि बुद्धौ सदा भायात् इति ॥

 आदित्यपक्षे तु—स्वरूपे स्वाकारे आसिता उपवेशिता । यद्वा-- स्वरूपेण स्वभावेनैव आ समन्तात् सिता बद्धा भाः दीप्तिः यस्मिन् स तथोक्तः । ‘षिञ् बन्धने' कर्मणि क्तः। 'मुद्दितं संदितं सितम्' इत्यमरः । स्वभावतो निश्चलदीप्तिरित्यर्थः । अथवा आसितं स्थितिः आसेर्भावे क्तः स्वरूपस्यासितं तेन भासत इति स्वरूपासितभाः, भासतेः क्विप्, स्वरूपस्थित्यैव भासमान इत्यर्थः । सदात्मनिबिडौजाः सन् स्वस्मिन्विद्यमानः ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्’ इत्यमरः । यः आत्मा परमपुरुषः 'य एषोन्तरादित्ये हिरण्मयः पुरुषः’ इति श्रुतेः । तेन निबिडौजाः ‘न तत्र सूर्यो भति’ इत्यारभ्य ‘तस्य भासा सर्वमिदं विभाति' इत्यादित्यादितेजसां तदुपजीव्यत्वश्रवणात् । नलिनदळेक्षणः दलयतीति दलं 'दल विशरणे' अस्माद्धातोर्णिजन्तात्पचाद्यच् । ‘णेरनिटि' इति णिलोपः । दलेर्घटादिषु भोजेन पठिततया ‘घटादयो मितः'