पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
98
अलंकारमणिहारे

जाः । द्युमणिर्नलिनदळेक्षण इह सुतरां शूरविख्यातः ॥ ८७५ ॥

 अत्र प्रकृतो भगवान् अप्रकृताविन्द्रादित्यौ त्रयाणामेषां श्लेषः । तथाहि, भगवत्पक्षे-- स्वरूपासितभाः स्वरूपेण स्वभावेन असिता श्यामला भाः दीप्तिर्यस्य स तथोक्तः ‘नीलतोयदमध्यस्था, श्यामाच्छबलं प्रपद्ये’ इत्यादिश्रवणात् । सदात्मनिबिडौजाः सतां ब्रह्मविदां आत्मनि मनसि । संश्चासावात्मा चेति कर्मधारयो वा । उभयथाऽपि विशुद्धे मनसीत्यर्थः । निबिडौजाः अविरळप्रकाशः 'मनोमयः प्राणशरीरो भारूप' इति शाण्डिल्यविद्यायां विशुद्धमनोग्राह्यत्वभास्वररूपत्वयोश्श्रवणात् अत्र--

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं
ध्यायमानः ॥
अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः
क्षीणदोषाः ॥

इत्यादिश्रुतयोप्यनुसन्धेयाः । ‘आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । द्युमणिः दिवि परमे व्योम्नि मणिरिव विद्योतमानः ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इति श्रुतेः । शूर इति विख्यातः ‘शूरश्शौरिः' इति तन्नामसु पाठात् । यद्वा-- शूरशब्दो यदुशब्दवत्तदपत्येषु लाक्षणिकः । शूरेषु यदुविशेषेषु विख्यातः येन स शौरिरित्यभिधीयते । द्युमणिशब्देन परत्वं शूरविख्यातशब्देन सौलभ्यं च दर्शितम् । देवोत्तमः चतुर्मुखादीनामप्युत्तमः ‘यत्र देवानामधिदेव आस्ते’ इत्यादिश्रुतेः । नलिनदळेक्षणः पुण्डरीकपलाशलोचनः भगवान् इह अस्मिन् लोके सुतरां भायात् ॥