पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
166
अलंकारमणिहारे

ग्योग्यं पालनं कुर्वन्तीत्यर्थः । व्यतिपूर्वकात्पातेः ‘कर्तरि कर्मव्यतिहारे’ इत्यात्मनेपदे क्रमेण लट्प्रथमपुरुषैकद्विबहुवचनानि । अत्र गाते व्यतिपाते इति च वचनत्रयेऽपि तुल्यरूपमिति वचनश्लेषः । अयं शुद्धः न तु पूर्ववत्सङ्कीर्णः इति विशेषः ॥

 अमीषामष्टानां श्लेषाणां मध्ये यस्य यस्मिन्नन्तर्भावः प्रतिभाति तत्र तद्भिन्नत्वं विवक्षणीयम्' इत्यलङ्कारकौस्तुभकारः । एते श्लेषभेदाः प्रागुपदर्शितेषु प्रकृताप्रकृतादिश्लेषोदाहरणेष्वपि यथायथं संभवन्तीति ध्येयम् । एवं अष्टविधस्सभङ्गश्लेषो निरूपितः । अभङ्गश्लेषो यथा, मदीय एव नृसिंहविलासे--

 अमृतश्रियं प्रयच्छन् सतां प्रवर्धितहिरण्यगर्भो यः । मुग्धेन्दुबिम्बधामा मुखे हरिस्स्तान्मुदे महान् स पुमान् ॥ ९३० ॥

 अत्र श्रीहयग्रीवनृसिंहयोरुभयोरपि स्तव्यत्वेन प्रस्तुतयोरेव श्लेषः । यः सतां अमृतश्रियं त्रयीमित्यर्थः । 'ऋचस्सामानि यजूग्ँषि । सा हि श्रीरमृता सताम्' इति श्रुतेः । प्रयच्छन् प्रदानेन हेतुना ‘लक्षणहेत्वोः' इति शता । प्रवर्धितः समेधितः हिरण्यगर्भः ब्रह्मा येन सः मधुकैटभापहृतवेदाहरणतत्प्रदानोज्जीवितचतुर्मुख इत्यर्थः । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुतेः । अत्र मोक्षधर्मगतहयशिरउपाख्यानमनुसन्धेयम् । पक्षे-- सतां ब्रह्मविदां अमृतश्रियं मुक्तिसंपदं प्रयच्छन् प्रवर्धितः प्रकर्षेण छिन्नः हिरण्यस्य हिरण्यकशिपोः गर्भः कुक्षिः येन स तथा । मुग्धेन्दुबिवं धाम स्थानं यस्य, पक्षे मुग्धेन्दुबिम्बस्य धामेव धाम तेजः यस्य स तथोक्तः । नृसिंहदिव्यविग्रहस्य ‘इन्दुधवळं लक्ष्मी-