पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
165
श्लेषसरः (२८)

अतिशयेन वृद्ध इति विग्रहः । वृद्धशब्दादीयसुनि ‘प्रियस्थिर' इत्यादिना वर्षादेशः । त्वं व्रजजनतानां नन्दव्रजजनसमूहानां वर्षीयान् अतिवृष्टिसंबन्धिनः गोवर्धनयागावसरक्रुद्धवृद्धश्रवःकलितानिति भावः । उपप्लवान् उपद्रवान् न्यरुणः न्यगृह्णाः । अपिच गरीयान् अतिशयेन गुरुः गुरूणामपि गुरुः प्रथमाचार्य इत्यर्थः । ‘त्वमस्य पूज्यश्च गुरुर्गरीयान्’ इत्युक्तेः । ‘गुरुर्गुरुतमः’ इति नामसहस्रपाठाच्च । काळीयस्य तन्नाम्न आशीविषस्य उद्धृतेः उत्सारणात् काळिन्द्याः यमुनायाः गरीयान् गरः गरळं तत्संबन्धिनः । गहादित्वाच्छः । एवं वर्षीयानित्यत्रापि दोषान् व्यधुनोः निराकार्षीः । अत्र प्रथमैकवचनद्वितीयाबहुवचनयोः श्लेषः । अन्यत्सर्वं यदुवरीयानित्यत्रेव बोध्यम् ॥

 यथावा--

 गाते तवब्जतुलनां ग्रीवा नयने नखानि च मुरारे । व्यतिपाते जगदखिलं कृपा तव दृशौ भुजाश्च चत्वारः ॥ ९२९ ॥

 हे मुकुन्द! तव ग्रीवा अब्जतुलनां शङ्खतौल्यं गाते गच्छति प्राप्नोतीत्यर्थः । नयने आब्जतुलनां पद्मसाम्यं गाते गच्छतः । नखानि च अब्जतुलनां चन्द्रसाधर्म्यं गाते गच्छन्ति । 'गाङ् गतौ' अस्माद्भौवादिकात् क्रमेण लट्प्रथमपुरुषैकवचनद्विवचनबहुवचनानि । बहुवचने ‘आत्मनेपदेष्वनतः’ इति झस्य अत् । तव कृपा अखिलं जगत् व्यतिपाते कर्मव्यतिहारेण रक्षति । कर्मव्यतिहारो नाम क्रियाविनिमयः । दृग्भुजयोग्यं पालनं करोतीत्यर्थः । तव दृशौ अखिलं जगत् व्यतिपाते कृपाभुजयोग्यं पालनं कुर्वाते । चत्वारो भुजाश्च व्यतिपाते कृपादृ-