पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
167
श्लेषसरः (२८)

नृसिंहं भजे' इति पाण्डुरत्वोक्तेः । मुखे हरिः तुरङ्गः सिंहश्च स महान् मुदे अस्तु । अत्रान्योन्यविलक्षणं पदभङ्गमनपेक्ष्य समानानुपूर्वीकशब्दप्रतिसन्धानबोध्यानेकार्थक्रोडीकरणादभङ्गश्लेषः ॥

 अत्र केचित्-- अनयोस्सभङ्गाभङ्गश्लेषयोः ‘सर्वदोमाधवः' इत्यादौ सर्वदः सर्वदेति पदद्वयस्य जतुकाष्ठन्यायेन संबन्धात्सभङ्गश्लेषश्शब्दालङ्कारः, शब्दवृत्तित्वात् । अभङ्गश्लेषस्तु अब्जकमलादिशब्देषु पदभेदाभावेन पदद्वयसंबन्धाभावाच्छब्दवृत्तितानुपपत्तेरेकस्मिन् शब्दे अर्थद्वयस्य वाच्यतया संबद्धत्वादयमेकवृन्तगतफलद्वयन्यायेनार्थालङ्कार इत्याहुः ॥

 अन्ये तु-- सभङ्गाभङ्गश्लेषौ द्वावपि शब्दालङ्कारावेव, शब्दान्वयव्यतिरेकानुविधायित्वात् । न तु सभङ्गश्लेषस्य शब्दाश्रितत्वाच्छब्दश्लेषत्वं अभङ्गश्लेषस्यार्थाश्रितत्वादर्थश्लेषत्वं युक्तं, कष्टत्वादिदोषगाढत्वादिगुणानुप्रासाद्यलङ्कारवदत्राप्यन्वयव्यतिरेकाभ्यामेव व्यवस्थोपपत्तावतिरिक्तनियामकान्तरकल्पने गौरवात् । न चैवमभङ्गश्लेषस्यापि शब्दान्वयव्यतिरेकानुविधायितया शब्दश्लेषत्वे अर्थश्लेषो निर्विषयस्स्यादिति वाच्यं,

स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी रीतिस्तुलाकोटेः खलस्य च ॥

इत्यादौ यत्र स्वल्पेनोन्नतिमायातीत्यादिना शब्दपरिवर्तनेऽपि न श्लेषत्वभङ्गः । तत्रैवार्थश्लेषपदवीसाम्राज्यादित्यवादिषुः ॥

 कुवलयानन्दकृतस्तु-- उभयमप्यर्थालङ्कार इति । अयं हि तेषामाशयः-- सभङ्गाभङ्गभेदेन द्विविधोऽप्ययं श्लेषोऽर्थालङ्कार एव, अनेकार्थप्रतिपादनात्मनस्तस्यार्थालङ्कारत्वस्यैवोचितत्वात् । आश्रयाश्रयिभावस्यैव लौकिकालङ्कारवत्तत्तदलङ्कारप्रयोजकत्वम् । लौ-