स्वोऽस्त्रियां धने’ इत्युभयत्राप्यमरः । धन्यः कृतार्थ एव कथं न स्याम् । भगवति न्यस्तात्मरक्षाभरस्य कृतार्थता स्यादेवेति भावः ।
पक्षे– धनं लब्धा धन्यः प्रत्ययिते सुजनसार्वभौमे न्यस्तधनस्य कथं पुनस्तद्धनलाभो न स्यादिति भावः । अत्र भगवच्छास्त्रीये व्यवहारे लौकिकव्यवहारारोपः ॥
यथावा--
प्रोल्लसदमलाब्जकरः प्रकाशविभवैः प्रसाधिताशान्तः । प्रथते फणाधरगिरिप्रभोरपघनो घनागमस्यान्ते ॥ ७९९ ॥
प्रोल्लसन् अमलः अब्जशङ्खः करे यस्य सः, प्रोल्लसन्त: अमलाः अब्जकराः चन्द्रकिरणाः यस्मिन् स इति च । प्रकाशविभवैः प्रभातिशयैः प्रकृष्टैः काशकुसुमविभवैश्च प्रसाधिताशान्तः । फणाधरगिरिप्रभोः अपघनः दिव्यविग्रहः घनस्य गम्भीरार्थस्य आगमस्य वेदस्य अन्ते उपनिषदीत्यर्थः । पक्षे- घनागमस्य प्रावृट्समयस्य अन्ते अवसाने इत्यर्थः । प्रथते । अत्रापि शास्त्रीये व्यवहारे लौकिकशरत्समयव्यवहारारोपः ॥
संख्यावद्भिस्सर्वविद्भिश्चमत्कारैकजीवितैः । |
इयं चालंकारान्तरेषु भूयस्स्वानुगुण्येन वर्तते । यथा--
कटकश्चरणे व्यलसच्छिरो हरेरधिरुरोह मणिमकुटी । दत्तेऽन्तरे वधूटी स्वल्पेऽपि विशृङ्खलप्रवृत्तिस्स्यात् ॥ ८०० ॥
अत्र सामर्थ्यत्वेन वर्तमाना समासोक्तिरर्थान्तरन्यासानुगुण्यमाधत्ते ॥