पृष्ठम्:अलङ्कारमणिहारः.pdf/५३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
526
अलंकारमणिहारे

योगपक्षे वर्तते । किंतु तीव्रपवनविक्षिप्तप्रदीपवत्स्वयमेव नश्य ति । एकाग्रं त्वेकविषयकधारावाहिकवृत्तिसामर्थं सत्त्वोद्रेकेण तमोगुणकृततन्द्रादिविलयादेकाकारा वृत्तिः । सा च रजोगुणकृतचाञ्चल्यरूपविक्षेपाभावादेकविषयैवेति शुद्धे सत्त्वे भवति चित्तमेकाग्रम् । अस्यां च भूमौ संप्रज्ञातः अत्र ध्येयाकारावृत्तिरपि भासते । तस्या अपि निरोधे निरुद्धं चित्तमसंप्रज्ञातसमाधिभूमिर्भवतीति क्रमः । तस्मात् क्षिप्तमूढविक्षितेषु समधेरसंभवादवशिष्टयोरेकाग्रनिरुद्धयोरेव समाधिभूमितया तदवान्तरभूतमधुमतीप्रभृतिभूमिचतुष्टयमादाय सार्वभौमत्वं योगस्य निर्व्यूढं वाचस्पतिमिश्रेणेति । अयमेव हि पक्षोऽस्मिन्नुदाहरणपद्ये विवक्षितः । क्षिप्तमूढविक्षिप्तभूमित्रयाश्रयणं प्रतिषिध्य एकाग्रनिरुद्धाख्यभूमिद्वयस्थित्यैव योगस्य सार्वभौमताया दर्शितत्वादित्यलम् ॥

 यथा वा--

 अविसन्निधिसातङ्कस्तवसेनारेणुरुल्ललन् शौरे। मन्येऽभ्रसरित्सलिलोपस्पर्शात्सकलमपि खमस्प्राक्षीत् ॥ ७८९ ॥

हे शौरे! तव सेनारेणुः अवेः भानोः स्त्रीधर्मिण्याश्च ।

अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे ।
प्राकारे भवने भासि स्त्री तु पुरुषवतीभुवोः ॥

इति रत्नमाला । सन्निधेः सन्निकर्षात् सातङ्कः तापान्वितः उपहतिशङ्कान्वितश्च ‘रुक्तापशङ्कास्वातङ्कः' इत्यमरः । उल्ललन् ऊर्ध्वं गच्छन् । पक्षे उत्प्लवमान इत्याचारशीलानुभावोक्तिः । अ-