पृष्ठम्:अलङ्कारमणिहारः.pdf/५३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
525
समासोक्तिसरः (२५)

भूमिविदितश्च भवेत् । न च पुंवाक्येष्वनेकार्थत्वं दोषमावहति। अत एव शिशुपालवधे-क्रियासमभिहारेण’ इत्यत्र ‘भृशं पौनःपुन्येन चेत्यर्थः' इति मल्लिनाथः । 'तस्येश्वरः, तत्र विदित इति च' इत्यधिकारे ‘सर्वभूमिपृथिवीभ्यामणञौ’ इत्यण् । अनुशतिकादित्वादुभयपदवृद्धिः ॥

 पक्षे-योगशास्त्रीयप्रक्रिययाऽर्थोऽनुसन्धेयः । तथाहि-'योगश्चित्तवृत्तिनिरोधः’ इति पातञ्जलं सूत्रम् । चित्तस्य रजस्तमोवृत्तीनां निरोधो योग इति तदर्थः । ‘स च सार्वभौमः’ इति तद्भाष्यम् । चित्तस्य पञ्च भूमयो भवन्ति- क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धमिति । तासु सर्वासु भूमिषु विदित इति तदर्थः यदाह भोजरजः– 'स च निरोधस्सर्वासां चित्तवृत्तीनां सर्वप्राणिनां च धर्मः कदाचित्कस्यांचिद्वृद्धिभूमावाविर्भवति' इति । अयमाशयः- यदा चित्तस्य या बुद्धिवृत्तिरुदेति तदा तस्यामन्यस्या वृत्तेर्निरोधो दृश्यते । यथा क्षिप्तावस्थायां मूढावस्थानिरोध इति तस्मादयं निरोधस्सर्वास्वपि चित्तभूमिषूक्तप्रकारेण विदित इति । वाचस्पतिमिश्रस्तु-- ‘एकाग्रस्य चित्तस्य तिस्रो भूमयः मधुमती मधुप्रतीका विशोकेति । निरुद्धस्य तु संस्कारशषतैकैवेति । सर्वासु च तासु चतसृषु भूमिषु अन्यासां प्रमाणादिवृत्तीनां निरोधो विदितः' इति तदर्थमाह । युक्तं चैतत् क्षिप्तादिषु पञ्चसु भूमिषु क्षितं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् । मूढं तु तमस्समुद्रेकान्निद्रादिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषश्चास्थेमबहुलस्य कादाचित्कस्थेमा । तत्र क्षिप्तमूढयोस्सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारंपर्येणापि निश्श्रेयसहेतुताविरहात्तदुपघातुकत्वाच्च समाधिशङ्कैव नास्ति । विक्षिप्ते तु चेतसि कादाचित्कस्समाधिर्न