पृष्ठम्:अलङ्कारमणिहारः.pdf/४९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
486
अलंकारमणिहारे

इत्यन्तेन भरद्वाजपरिशिष्टोक्तं द्रष्टव्यम् । एषा त्वत्प्रीणनार्थमेव त्वां यजन्ती बुधततिः इह यजनकर्मणि कथमिव जहत्स्वार्था जहात् स्वार्थो यां सा तथोक्ता न स्यात् जहत्स्वार्थैव स्यादित्यर्थः ।

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा .....................॥

इति त्वद्गानानुरोधेन सर्वाणि कर्माणि केवलं त्वदाराधनरूपतया त्वत्प्रीणनानीति मत्वाऽनुतिष्ठन्त्या अस्या बुधततेरन्यदर्थाशंसा कथमपि नोदियादेवेति भावः । अनेन

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः ॥

इत्युक्तरीत्या तदनुष्ठितानां मखानां सात्त्विकत्वं द्योत्यते । अनेनैव जहत्स्वार्थेति विशेषणेन तस्याः पारमेकान्त्यं दर्शितम् । परमैकान्तिनो हि भगवद्दास्यैकरतित्वान्न तत्प्रीणनमन्तरा मनागपि स्वप्रयोजनमभिलष्यन्ति यथोच्यते भरद्वाजसंहितायाम्-

स एकान्त्यन्यविमुखो हरिं सर्वेश्वरं परम् ।
यस्समाश्रयते किंचित्फलमभ्यर्थयन्नरः ॥
न्यस्ताशेषभरश्श्रीशे यस्तु दास्यैकजीवितः ।
स एष परमैकान्ती द्वावेतौ वैष्णवौ स्मृतौ ॥

इति । पक्षे-पूर्वार्धमनतिरिक्तार्थकमेव । उत्तरार्धे तु- इह कनकमुखर्यां यजतीत्यत्र जहत्स्वार्था सती च सा लक्षणा सल्लक्षणा लक्षणाख्या शब्दव्यापृतिः कथं न स्यात् । 'गङ्गायां घोषः' इत्यत्रेवात्रापि स्वार्थत्यागेन लक्षणा स्यादेवेति भावः ॥

स्याज्जहल्लक्षणा यत्र स्वार्थं त्यक्त्वाऽन्यवृत्तिता ।

इति लक्षणात् । यत्र स्वार्थत्यागेन परार्थबृत्तिता तत्र जहल्ल-