पृष्ठम्:अलङ्कारमणिहारः.pdf/४९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
487
समासोक्तिसरः (२५)

क्षणेति तदर्थः । अत्र च कनकमुखर्यामित्यत्र वाच्यस्य प्रवाहस्य मखकरणकयजनान्वयायोग्यत्वात्कनकमुखरीशब्दस्स्वार्थं परित्यज्य स्वार्थसंबन्धिनि तीरे वर्तत इति जहत्स्वार्था लक्षणैषेति ध्येयम् । अत्र गीताभगवच्छास्त्रादिसिद्धे प्रस्तुतव्यवहारे अप्रस्तुतन्यायादिशास्त्रीयव्यवहारारोपः ॥

 यथावा-

 परमपुरुषार्थमाप्तुं फणाधरगिरिं प्रपत्तिरध्युषिता । मध्यमवृत्तिरविजहत्स्वार्था भवतीह को नु संदिग्धाम् ॥ ७६७ ॥

 मध्यमवृत्तिः मध्यमा वृत्तिः । वक्ष्यमाणलक्षणा यस्यास्सा तथोक्ता प्रपत्तिः, प्रपत्तिविशिष्टाः पुरुषा इति यावत् । ‘कुन्ताः प्रविशन्ति’ इत्यत्र कुन्तविशिष्टाः पुरुषा इतिवत् । परमपुरुषार्थं निश्श्रेयसरूपमुत्तमपुरुषार्थं आप्तुं लब्धुं फणाधरगिरिं अध्युषिता सती अविजहत् स्वार्थः परमपुरुषार्थो यां सा तथोक्ता भवति ।

उपायापायसंत्यागी मध्यमां वृत्तिमाश्रितः।
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः ।
बुध्येत देवदेवं तं गोप्तारं पुरुषोत्तमम् ॥

इति लक्ष्मीतन्त्रोक्तमार्गेण उपायापायमध्यस्थां वृत्तिमास्थितो भगवन्तं प्रपन्नो जनः--

यत्र नारायणो देवः परमात्मा सनातनः ।
तत्पुण्यं परमं ब्रह्म तत्तीर्थं तत्तपोवनम् ॥
तत्र देवर्षयस्सिद्धास्सर्वे चैव तपो धनाः।

इति भारताद्युक्तरीत्या प्रपन्ननिवासार्हे वेङ्कटमहीभृति कृतवस-