पृष्ठम्:अलङ्कारमणिहारः.pdf/४१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
410
अलंकारमणिहारे

 उद्धृतं उत्क्षिप्तं उन्मूलितश्चेति लिङ्गविपरिणामेन योज्यम्। तेनैव चक्रेणैव सह नक्रः त्वत्तः त्वत्सकाशात् मुक्तः त्यक्तः 'अपेतापोढमुक्त’ इति समासविधानात् ज्ञापकात्पञ्चमी । पक्षे- देवलशापान्मुक्त इत्यर्थः । ‘मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः' इति श्रीभागवतोक्तेः । नक्रचक्रयोस्तुल्यतयोद्धरणमोचने कथमित्यत आह- प्रकृतावित्यादि । हि यस्मात् अनयोः नक्रचक्रयोः प्रकृतौ स्वभवे न च भिदा नैव भेदोऽस्ति तस्मादुद्धरणमोचनतौल्यमनयोर्युक्तमिति भावः । पक्षे –अनयोः नक्रचक्रशब्दयोः प्रकृतौ नक्रचक्रेत्याकारके प्रत्ययविधावुद्देश्यभूते शब्दरूपे नचभिदा नकारचकाराभ्यामेव भेदः क्रेत्याकारकवर्णस्योभयत्र तुल्यत्वात् । स्वादौ प्रत्यये पुंनपुंसकलिङ्गयोरनयोश्शब्दयोः विसर्गानुस्वारादिकृतचैलक्षण्यसद्भावेऽपि प्रकृतिमात्रे नकारचकारमात्रकृतं वैलक्षण्यमिति भावः । इयमपि कर्मसहोक्तिः श्लेषभित्तिकाभेदाध्यवसायमूला । अत्र कार्यकारणपौर्वापर्यविपर्ययलक्षणातिशयोक्तिसद्भावेऽपि श्लेषमूलकाभेदाध्यवसितेरेव चमत्कारातिशयाधायकत्वम् । अत्र पूर्वार्धे नक्रचक्रयोर्गुणप्रधानभावः । उत्तरार्धे चक्रनक्रयोस्स इति वैपरीत्यं च विशेषः ॥

 शुद्धश्लेषभित्तिकाभेदाध्यवसायमूला यथा—

 निरवधिकरुणानिधिना भवता भवतापतो नतानवता । इष्टेन सहानिष्टं निरस्तमारचि समस्तमपि भगवन् ॥ ७०१ ॥

 इष्टेन अभीप्सितार्थेन सह अनिष्टमशुभं निरस्तमारचि । इष्टपक्षे निर्गतं अस्तं अदर्शनं यस्य तत् निरस्तम् । अस्तमिति मान्तमव्ययं, तेन सह बहुव्रीहिः। ‘अस्तमदर्शने' इत्य