पृष्ठम्:अलङ्कारमणिहारः.pdf/४१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
411
सहोक्तिसरः (२३)

व्ययेष्वमर । अनस्तंगतं प्रकाशमानमेवाकारीत्यर्थः । अनिष्टपक्षे निरस्तं प्रक्षिप्तं नाशितमित्यर्थः । अत्र निरस्तमिति श्लेषेणैव भेदाध्यवसायः, न त्वन्यप्रकारेण । अत्रापि कर्मसाहित्यमेव ॥

 न्यपतन् शिरांस्यरीणां मुरारिबाणैस्सहारिनारीणाम् । अश्रुझरैस्सातङ्कैस्ताटङ्कैस्सुरसुमैश्च विजयाङ्कैः ॥ ७०२ ॥

 विजयाङ्कैः विजयचिह्नभूतैरित्यर्थः । अत्र निपतनस्य बाणाद्याश्रयभेदेन भिदुरस्यापि च्युतत्वरूपैकोपाध्यवच्छिन्नतया अभिदुरीकृतस्योपादानमित्यस्यैकक्रियासंबन्धः । अत एव न श्लेषः तस्य प्रतिपाद्यतावच्छेदकभेद एवाभ्युपगमात् । एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति । सहादिशब्दप्रयोगेण विनाऽपीयं संभवति ‘वृद्धो यूना’ इति निर्देशेन तृतीयाया निष्प्रत्यूहप्रसरत्वात् । परंत्विवादिशब्दप्रयोगविधुरोत्प्रेक्षावद्गम्या । अप्रधानभावस्तु शाब्द एव । यद्यपि प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयोपमानतयोर्निर्णायके । तथाऽपीह न ताभ्यां तयोर्निर्णयः, प्रकृतयोरपि साहित्यसंभवात् । किंतु प्राधान्याप्राधान्याभ्यामेव । हृद्यत्वं चास्या अतिशयोक्तिकृतमित्यवोचाम । यत्र तु सा नास्ति तत्र ‘पुत्रेण सहागतः पिता'--

 नाकं परेण भान्तं लोकं परमं विहाय दिव्यं तम् । लोकंपृणस्स भगवान् साकं लक्ष्म्यैव विहरति वृषाद्रौ ॥ ७०३ ॥