पृष्ठम्:अलङ्कारमणिहारः.pdf/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
398
अलंकारमणिहारे

 हे विधो ! हे विष्णो! इति संबुद्धिः । अत्र पूर्वार्धे उपमेयोत्कर्षश्शाब्दः । उपमानापकर्षसादृश्याभावावाक्षिप्तौ । द्वितीयार्धे उपमानापकर्षश्शाब्दः । उपमेयोत्कर्षसादृश्याभावावाक्षिप्तौ । एवं क्वचित् द्वयोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव रमणीयमिति नोदाह्रियत ॥

 क्वचित्त्रयमप्याक्षिप्तमेव-

 विपुलेऽस्मिन् भुवनतले व्यदधाद्रत्नाकरान्विधिस्सप्त । अवधिर्दृशोरसंख्यांस्तवाम्ब रत्नाकरान् सृजति लोकान् ॥ ६८१ ॥

 दृशोरवधिः कटाक्ष इत्यर्थः । विधेः भुवनतले सतैव रत्नाकरान् सिन्धून् व्यदधात् असृजत् । हे अम्ब ! तव कटाक्षस्तु असंख्याकान् लोकानेव रत्नाकरान् सिन्धून् सृजति उत्तमवस्तूनामाधारान् सृजतीति तु तत्त्वम् । सर्वविधसमृद्धिमतः कल्पयतीति भावः ॥

यथावा--

 गम्भीरोऽनुन्नतिभागम्बुधिरगभीर उन्नतो मेरुः। गम्भीरोन्नत एकः कुम्भीनसकुम्भिनीभृदवतंसः ॥

 भास्वान्भानुरशिशिरः प्रसन्न इन्दुस्सदाऽप्यनुष्ण इह । श्रीमान्सदा प्रसन्नस्स्वामी शिशिरोष्ण एक एव त्वम् ॥ ६८३ ॥

 शिशिरः शीतलः दयार्द्रश्च । उष्णः तीक्ष्णः दक्षश्च ‘उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी । यद्वा--