पृष्ठम्:अलङ्कारमणिहारः.pdf/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
399
व्यतिरेकसरः (२२)

'तीक्ष्णश्चैव मृदुश्चैव राजा भवति सम्मतः’ इत्युक्तरीत्या नातिमृदुर्नातितीक्ष्णः । किंतु निग्रहानुग्रहशील इत्यर्थः । अन्यथा ‘तीक्ष्णादुद्विजते लोको मृदुर्हि परिभूयते’ इति केवलतैक्ष्ण्यमार्दवयोर्दोषस्मरणादिति भावः । स्पष्टमन्यत् ।

 यथावा--

 अन्तर्बहिरप्यमलस्त्वं चन्द्रोऽन्तर्मलीमसश्शौरे । त्वं ननु परमोदारस्स तु लुब्धशिरोमणिस्सरोजाक्ष ॥ ६८४ ॥

 निर्गर्जनममलीमसवदनः प्रददासि सदमृतं स्वामिन् । गर्जन्मलीमसमुखः पर्जन्यो वितरतीह विषमेव ॥ ६८५ ॥

 परिपक्वबन्धसमनःपरंपरां स्पर्शनेन पातयति । माधव एकोऽन्यस्तां प्रापयति स्वपदमेव तेनोच्चैः ॥ ६८६ ॥

 परिपक्वाः परिणताः विनाशोन्मुखाश्च बन्धाः वृन्तानि भ वबन्धाश्च यस्यास्तां तथोक्तां सुमनसां कुसुमानां विदुषां च परंपरां स्पर्शनेन मरुता अभयादिवितरणेन च ‘स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी । एको माधवः वसन्तः पातयति अधो नयति । अन्यः माधवः भगवान् तां परिपक्वबन्धसुमनःपरंपरामित्यर्थः । तेन स्पर्शनेन उच्चैः उन्नतं पूज्यं च ‘महत्युच्चैः' इत्यमरः । स्वपदमेव स्वावस्थानतरुशाखास्थानमेव । पक्षे–परमं पदमेव प्रापयति ॥