पृष्ठम्:अलङ्कारमणिहारः.pdf/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
396
अलंकारमणिहारे

 ज्योतिः ‘अथ यदतःपरो दिवो ज्योतिः' इति श्रुतनिरतिशयदीप्तियुक्तं ब्रह्म परं ब्रह्म लोकालोकं चक्रवाळाचलं अतीतं ‘द्वितीया श्रित’ इत्यादिना समासः सर्वव्यापीति भावः ! यद्वा- लोकानां जनानां आलोकं दर्शनं अतीतं अचक्षुर्ग्राह्यमित्यर्थः । 'न चक्षुषा गृह्यते । न तत्र चक्षुर्गच्छति । यत्तदद्रेश्यं । अदृश्येऽनात्म्ये' इत्यादिश्रुतेः। विख्यातं न भवतीत्यविख्यातं न, सकलजगत्कारणत्वादिना सर्ववेदान्तप्रथितमित्यर्थः । संभाव्यविख्यात्यभावप्रतिषेधाय नञ्द्वयम् । अमृतं निश्श्रेयसं विशोषयतीत्यमृतविशोषि च न न भवति ‘अमृतस्यैष सेतुः’ इति निश्श्रेयसप्रापकत्वश्रवणात् ‘एतदमृतम्’ इत्यादिभिरमृतत्वश्रवणाच्च । पक्षे--अविरिति ख्यातं जलविशोषि च नेत्यर्थः ‘अवयश्शैलमेषार्काः, अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते’ इत्यमरमेदिन्यौ । तदिदं ज्योतीरूपं ब्रह्म ब्रद्नो भानुः निध्यातुं द्रष्टुमपि ईशीत किं नेशीतैवेति भावः । अत्र लोकालोकातीतत्वादिका उपमेयोत्कर्षहेतव एवोपात्ताः, न तु लोकालोकानतीतत्वाविख्यातत्वामृतविशोषित्वान्युपमानापकर्षहेतवः । श्लेषोपमाक्षेपौ च स्पष्टौ ॥

 इदमत्रावधेयं- इह श्लेषावलम्बिव्यतिरेकप्रभेदे उभयानुपादानेन उपमायाश्श्रौतीत्वार्थीत्वाक्षिप्तत्वप्रयुक्तभेदत्रितयं दुरुपपादम्। वैधर्म्यानुक्तौ किमवलम्बश्श्लेष उन्मिषेत् । न च यत्र द्विजराजरत्नाकरप्रभञ्जनमातरिश्वादिशब्दसमधिगम्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोन्मेषकस्तत्रैव तदुदाहरणं सुपपादमिति वाच्यं, तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात् । एवंच चतुर्विंशतिर्भेदा इति प्राचामुक्तिर्भूयिष्ठोदाहरण-