पृष्ठम्:अलङ्कारमणिहारः.pdf/४०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
395
व्यतिरेकसरः (२२)

किङ्करतामपि कमलं संकलयितुमर्हतीति को ब्रूयात् ॥ ६७७ ॥

 अत्रोपमेयोत्कर्षकं पङ्कविलोपनपटुत्वमेवोपात्तं, उपमानापकर्षकं पङ्कदिग्धत्वं तु नोपात्तम् । किंकरतामित्यादिना उपमा आक्षिप्तैव । श्लेषश्च ॥

 यथावा--

 अत्युज्ज्वलतां विन्दसि या त्वं श्रीर्हरिकरावमर्शेन । तस्यास्तेऽम्ब हरिद्रा छात्रत्वं छाययाऽपि किं भजताम् ॥ ६७८ ॥

 हे अम्ब ! श्रीः ! या त्वं हरेः भानोः भगवतश्च कराणां किरणानां पाणीनां च अवमर्शेन अत्युज्ज्वलतां अतिदीप्तत्वं अतिमात्रशृङ्गाररसवत्त्वं च । विन्दसि ‘उज्ज्वलस्तु विकासिनि । शृङ्गारे विशदे दीप्ते’ इति हेमः । तस्याः ते हरिद्रा छाययाऽपि वर्णेनापि न तु गुणान्तरेणेति भावः । लेशतोऽपीत्यपि गम्यते । छात्रत्वं अन्तेवासित्वं भजतां किं, न भजेदेवेत्यर्थः । यद्वा-छायया छात्रत्वमपि भजतां किमिति योजना । तदपि भक्तुमनर्हं किमुत साम्यमिति भावः । अत्र हरिकरावमर्शहेतुकात्युज्ज्वलताभाक्त्वमुपमेयोत्कर्षकमात्रमुपात्तं, न तु हरिकरावमर्शहेतुकविच्छायत्वमुपमानापकर्षकम् । सा च श्लेषश्च ॥

 यथावा--

 लोकालोकातीतं नाविख्यातं न चामृतविशोषि । ब्रह्म ज्योतिस्तदिदं ब्रध्नो निध्यातुमपि किमीशीत ॥ ६७९ ॥