पृष्ठम्:अलङ्कारमणिहारः.pdf/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
381
व्यतिरेकसरः (२२)

पादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपादाने तथैव, न त्वनवगतिः व्यतिरेकस्योत्कर्षापकर्षरूपत्वात् । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात् ॥

 एवम्--

 सततमनाविलभावां काले क्वचिदाविलत्वमुपयान्ती । बहिर्मुखस्रवन्ती साऽर्हति किं तव कृपां समां कर्तुम् ॥ ६५६ ॥

 अत्रोभयोपादानं, उपमा त्वार्थी । ‘बाले सुधापयोधेः काले क्वचिदाविलत्वमुपयान्ती’ इति पठिते पूर्वार्धे, अस्यैव ‘काले क्कचिदप्यनाविलत्वजुषम् । बहिर्मुखस्रवन्ती’ इति द्वितीयतृतीयचरणयोश्च कल्पितयोरेकतरानुपादानं, आर्थी चोपमा । ‘व्यालेशगिरीशहृदयकृतशाले’ इति, ‘बाले सुधापयोधेः' इत्यस्य द्वितीयचरणे निर्मिते उभयानुपादानं सा च ॥

 निरवधिकानन्ददुघा द्विरसनगिरिनाथसंनिधौ वसतिः । अधरयति मितानन्दां विधिमुखलोकेषु निवसतिं नॄणाम् ॥ ६५७ ॥

 अत्र इवादेस्सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभावाच्छुत्यर्थपथात्यासादिनी अधरीकरणेनाक्षिप्तैवोपमा । अत्रैव ‘निरवधिकसुकृतसुलभे' इत्याद्यचरणनिर्मितौ, ‘अधरयति विधिनिधीश्वरविधुशेखरलोकनिवसतिं नॄणाम्’ इत्युत्तरार्धनिर्माणे वा एकतरानुपादानम् । आक्षिप्ता चोपमा । अस्यैव 'फणधरधराधराधिपमधुमथनपदाब्जसंनिधौ वसतिः' इति पूर्वार्धे निर्मिते उभयानुपादानं, सा च ॥