पृष्ठम्:अलङ्कारमणिहारः.pdf/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
380
अलंकारमणिहारे

 यथा--

 अम्लानश्रीकमिदं सदाऽपि वदनं सरोजसदनायाः । म्लानश्रियोपमां क्कचिदैन्दवबिम्बेन किमवलम्बेत ॥ ६५४ ॥

 म्लाना न भवतीत्यम्लाना निर्मलेति वस्तुस्थितिः ‘अम्लानस्त्वमले झण्टीभेदे' इति हेमचन्द्रः । तादृशी श्रीर्यस्य तत्तथोक्तं ‘शेषाद्विभाषा' इति कप् । क्कचित् म्लानश्रियेत्यन्वयः' अयं चोपमेयोत्कर्षकोपमानापकर्षकयोर्वैधर्म्ययोर्द्वयोरप्युपादानानुपादानाभ्यामेकतरानुपादाने च तावच्चतुर्धा । सोप्युपमायाः श्रौतीत्वार्थीत्वाक्षिप्तात्वैर्द्वादशविधो भवन् सश्लेषनिश्श्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राञ्चः ॥

 यथा--

 जल्पन्तु यथाकामं जल्पाका देव तावकः पाणिः । कल्पद्रुरिव किमेषोऽनल्पां दत्ते श्रियं स तु स्वल्पाम् ॥ ६५५ ॥

 तावकः पाणिः कल्पद्रुरिव किं ? स इव न स्यादिति भावः । कुत इत्यत आह –एष इति । एषः तावकः पाणिः । अन्यत्सुगमम् । अत्रोभयोरुपादानं, उपमा च श्रौती । अत्रैव- 'कल्पद्रुम इव कथमयमल्पां दत्ते श्रियं न जात्वपि यः' इत्युत्तरार्धे रचिते ‘कल्पद्रुरिव किमेष स्वल्पां श्रियमेव यस्सदा दत्ते’ इति वा रचिते एकतरानुपादानम् । श्रौती चोपमा । 'कल्पद्रुरिवेति वचः कल्पेत बुधस्य कस्य तोषाय' इति कृते हतुसामान्यानुपादानं सा श्रौती च । हेतुद्वये हि यस्यैवानु-