अत्र वाचकलुप्ता समासगा यथा--
विदलितवलरिपुमणिवरशकलविनीलं श्रयन्तमहिशैलम् । वारं वारं हृदये स्मेरं कलयेय कमपि शृङ्गारम् ॥ ४४ ॥
अत्र शकलविनीलमित्यत्र समासे वाचकलोपः । ‘चन्दिररुचिरनिटालम्’ इति पूर्वमुदाहृतमप्यस्योदाहरणम् ॥
कर्मक्यचि वाचकलुप्ता यथा--
हर्यङ्के विहरन्ती पर्यङ्कीयति तमेतमुत्तुङ्गम् । उपधानीयति कमला तस्य भुजं भुजगभोगसुकुमारम् ॥ ४५ ॥
अत्र पर्यङ्कीयति उपधानीयतीत्युभयत्रापि पर्यङ्कमिवाचरति उपधानमिवाचरतीत्यर्थे कर्मक्यचि हर्यङ्कपर्यङ्कयोः भुजोपधानयोश्च उत्तुङ्गं भुजगभोगसुकुमारमिति साधारणो धर्मः । पर्यङ्कीयतीत्यादौ 'उपमानादाचारे’ इति कर्मणस्सुबन्तादाचारार्थे क्यचि 'क्यचि च' इत्याकारस्य ईत्वम् । हर्यङ्कं पर्यङ्कमिवाचरतीत्यत्र वाक्ये प्रक्रान्तं कर्मद्वयं, तत्रोपमानकर्मणोऽन्तर्भूतत्वात्तदपेक्षयाऽसावकर्मको धातुः । तदुक्तं--
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । |
इति । अन्यकर्मापेक्षया तु सकर्मक एव । यदाह भगवान् भाष्यकारः- 'द्वे ह्यत्र कर्माणी उपमानकर्मोपमेयकर्म चेति । उप-