पृष्ठम्:अलङ्कारमणिहारः.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
29
उपमालंकारसरः (१)

मानकर्मान्तर्भूतं उपमेयकर्मणा सकर्मको भवति' इति । एवमन्यत्रापि द्रष्टव्यम् ।

 यथा वा--

 इन्द्रीयन्ति दृशस्ते स्पृशन्ति यांस्तान्विशो भृशं विभवैः । चन्द्रीयन्ति दिशस्ते यशःप्रकाशा विशालविशदिम्ना ॥ ४६ ॥

 इदमपि कर्मक्यचि वाचकलुप्ताया एवोदाहरणम् । इन्द्रीयन्ति चन्द्रीयन्तीत्युभयत्रापि इन्द्रमिवाचरन्ति चन्द्रमिवाचरन्तीत्यर्थे कर्मक्यचि इन्द्रस्य विशां च विभवैरिति साधारणो धर्मः चन्द्रस्य दिशां च विशालविशदिम्नेति साधारणो धर्मः। विशः मनुजानित्यर्थः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । द्वितीयपादे भृशं विभवैरित्यत्र ‘भृशमुदाराः' इति, चतुर्थचरणस्य ‘यशः प्रकाशास्तु काशनीकाशाः' इति ‘शेषशैलेन्दोः' इति वा निर्माणे उभयत्रापि धर्मस्याप्यनुपादानाद्धर्मवाचकलुप्ताऽपीयं भविष्यतीति ध्येयम् ॥ एवंचात्र धर्मोपादानानुपादाने ऐच्छिके इति ध्येयम् । अस्य पूर्वोदाहरणादयमेव विशेषः ॥

 अधिकरणक्यचि वाचकलुप्ता यथा--

 जलधौ जननगृहीयति जलजे केळीगृहीयति मनोज्ञे । सौधीयति वेङ्कटपतिविशङ्कटोरस्थलेऽमले कमला ॥ ४७ ॥