पृष्ठम्:अलङ्कारमणिहारः.pdf/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
332
अलंकारमणिहारे

 यथावा--

 नयशाली विबुधेन्द्रो जयशाली भाति सांयुगीनेन्द्रः । रयशाली खगराडुच्छ्रयशाली चापि वेङ्कटगिरीन्द्रः ॥ ५७० ॥

 एवं तुल्ययोगितायामपि संभवतीत्युदाहार्ष्म । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रं चमत्कारकारणम् । किंतूदाहृतरीत्या नयादिप्रतिबिम्बभावकरम्भितम् । इयांस्तु विशेषः-यत्केवलबिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा-प्रागुपमायामुदाहृते ‘कमलाभुजयुगळाञ्चित' इत्यादौ । प्रकृते तु न तथा, अनुगामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः। न हि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वृत्तिस्संभवति । श्लेषेणाप्येतत्संभवति ॥

 यथा--

 ननु नाथ शब्दविद्याविदः परब्रह्मवेदिनश्चापि। शेषगिरीश्वर नियतं भवति हि गतिरच्छगत्यर्थे ॥

 शब्दविद्याविदः व्याकरणवेत्तुः परब्रह्मवेदिनः परब्रह्मवेत्तुश्च अच्छगत्यर्थे गतिर्भवति नियतम् । तत्राद्यपक्षे—अच्छ अच्छेत्यव्ययं गत्यर्थे गत्यर्थकधातुयोगे गतिः गतिसंज्ञको भवति । ‘गतिश्च' इत्यनुवर्तमाने 'अच्छ गत्यर्थवदेषु' । इति सूत्रेणाच्छेत्यव्ययस्य गत्यर्थकधातुयोगे गतिसंज्ञाविधानादिति भावः । द्वितीयपक्षे—अच्छा प्रकृतिसंवन्धविमोचयित्री या गतिः अर्चिरादिमार्गेण गमनं तस्यै तदर्थं ‘अर्थे कृते च शब्दौ द्वौ तादर्थ्येऽव्ययसंज्ञितौ' । गतिः ज्ञानं भवति निष्पद्यत इत्यर्थः । अत्रा-