पृष्ठम्:अलङ्कारमणिहारः.pdf/३३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
333
दीपकसरः (१७)


प्रकृतस्य शब्दविद्याविदः प्रकृतस्य परब्रह्मविदश्च अच्छगत्यर्थे गतिर्भवतीति श्लेषेण समानधर्मता ॥

 अत्रेदमवधेयं, यद्यपि--

 दुर्दमदारिद्र्यतमोनिर्दलनचणावुभौ समिन्धाते। चिन्तामणिशिखरिमणिश्चिन्तामणिरिति च यस्सुपर्वमणिः ॥ ५७२ ॥

इत्यत्र प्रस्तुताप्रस्तुतयोर्युगपद्धर्मान्वयः प्रतिभाति । ‘रक्तिविहीना वनिता’ इत्यादिषु प्रागुदाहृतेषु पद्येषु अप्रस्तुतस्यैव प्रथमं धर्मान्वयः, तथाऽपि—तस्य प्रासङ्गिकत्वं न हीयते । वस्तुगत्या प्रस्तुतोद्देशेन प्रवृत्तस्यैव वर्णनस्य प्रस्तुतेऽप्यन्वयात् । न हि दीपस्य रथ्याप्रासादयोर्युगपदुपकारकत्वेन जामात्रर्थं श्रपितस्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते । तुल्ययोगितायां त्वेकं प्रस्तुतमन्यदप्रस्तुतमिति विशेषाग्रहणात्सर्वोद्देशेनैव धर्मोक्तिरिति विशेषः । अयं चनयोरपरो विशेषः- उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽपि अत्राप्रस्तुतमुपमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावः, तत्र तु विशेषाग्रहणादैच्छिकस्स इति । इदं सर्वं कुवलयानन्दे स्पष्टम् । कैश्चित्तु–मालादीपकमप्यत्रैवान्तर्भावितम्, तदयुक्तम् । ‘स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः' इत्यादौ सादृश्यसंपर्काभावादिति । एतच्च मालादीपकनिरूपणावसरे प्रपञ्चयिष्यते ॥


इत्यलंकारमणिहारे दीपकसरस्सप्तदशः