पृष्ठम्:अलङ्कारमणिहारः.pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
317
तुल्ययोगितासरः (१६)

कर्तुं श्रेयो निरवधि काकोदरगिरिपतेः क ईष्टेऽन्यः॥

 मतान्तरे त्वत्र वक्ष्यमाणस्समुच्चयालंकार एव ॥

 इयं व्यङ्ग्या यथा--

 नक्तंदिवं मुरारे ज्वलतस्तव तेजसः कथा यत्र । तत्र कदाचिद्दीव्यन्को वा भानुः कृशानुरपि ॥

 अत्र को वेत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य भानुकृशानुभ्यामप्रकृताभ्यामन्वयो व्यज्यते ॥

 द्वितीयतुल्ययोगिता-

हितेऽहिते च यद्वृत्तेस्तौल्यं सा त्वपरा मता ।

 हिताहितविषये व्यवहारतौल्यमन्या तुल्ययोगितेत्यर्थः॥

 यथा--

 शपतां चैद्यादीनां जपतामपि योगिनां भवन्नाम। अददाः पदं समानं वद दाक्ष्यं यदुकुमार किमिदं ते ॥४४२ ।।

 अत्र यदुवंश्यत्वेन भगवतस्संबोधनं विवक्षितार्थस्य तदवतारीयत्वज्ञापनाय । तत्रापि कुमारेत्युक्तिर्हिताहितविभागमुग्धताभिप्रायेण ॥

 यथावा--

 कलशाब्धिसुताकमितस्सुहृदसुहृच्च त्वया कृत-