पृष्ठम्:अलङ्कारमणिहारः.pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
318
अलंकारमणिहारे

श्शामितः। वदतोऽस्ति न मे द्वेष्यो न प्रिय इति ते न चैतदाश्चर्यम् ॥ ५४३ ॥

 सुहृत् अर्जुनादिः शं सुखं इतः प्राप्तः कृतः । एवमसुहृदपि । पक्षे शमितः विनाशित इत्यर्थः ॥

 यथा वा--

 त्वच्चरणसम्मुखीनं तत्र पराचीनमप्यहिगिरीन्दो । त्वं वैभवसंमूर्छनभाजं वितनोषि का नु ते प्रौढिः ॥ ५४४ ॥

 वैभवस्य विभुत्वस्य संमूर्छनमभिव्याप्तिः ‘मुर्छा मोहसमुच्छ्राययोः' इति धातोर्ल्युट् । तद्भाजमिति सम्मुखीन पक्षे । पराचीनविषये तु वै इति प्रसिद्ध्यर्थकमव्ययम् संसारे संमूर्छनभाजं मोहभाजं वितनोषीत्यर्थः ॥

 यथावा--

 क्रियते हि सदास्थावरजन्मा जनताऽच्युत त्वया विनता । विमताऽपि तथाऽतितरां मम तावद्विस्मयो महानेषः ॥५४५॥

 हे अच्युत ! त्वया विनता विमता च जनता सदास्थावरजन्मा क्रियते, विनतपक्षे—सत्सु ब्रह्मवित्सु आस्था श्रद्धा यस्यास्सा सती प्रशस्ता आस्था यस्यास्सेति वा । वरं श्रेष्ठं जन्म यस्यास्सा तथोक्ता च क्रियते । मन्नन्तत्वान्न ङीप् । अन्यत्र-सदा सन्ततं स्थावरजन्मा वृक्षादिरूपजन्मभाक् क्रियते हिः प्रसिद्धौ । स्पष्टमन्यत् ।