पृष्ठम्:अलङ्कारमणिहारः.pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
311
तुल्ययोगितासरः (१६)

तदेव पररूपं मार्तण्डे मार्तण्डशब्देऽपि स्फुरति । मृते अण्डे जातो मार्तण्ड इत्यत्र तद्धितप्रकृतिभूतमृतण्डशब्दे तकारोत्तरवर्त्यकारस्य तत्परभूताकाररूपैकादेशदर्शनादिति भावः । परं अनयोश्शब्दयोर्मध्ये परत्र पठितं मार्तण्डशब्दं एकं एकमेव । न तु मनीषाशब्दमपि, तस्य वक्ष्यमाणगणे पाठदर्शनादिति भावः । सर्वदा आकृतिगण्यं आकृत्या पररूपवत्त्वाकारेण गण्यं शकन्ध्वादिगणं लब्धारं ‘धनगणं लब्धा’ इति यत् । लब्धेति तृन्नन्तेन लाभताच्छील्यं द्योतितम् । उक्तगणे पठितुमर्हमिति यावत् । शाब्दोक्तिः शब्दशास्त्रीयं ‘शकन्ध्वादिषु पररूपं वाच्यम्’ इति वार्तिकमित्यर्थः । आह वदतीति अवैमि संभावये । मनीषाशब्दवन्मार्तण्डशब्दस्य गणे पाठाभावादुक्तपररूपवत्त्वाकारेणायं शकन्ध्वादिगणे पठनीय इति सभावये । अन्यधा पररूपविधायकशास्त्रान्तरादर्शनादयमसाधुतामश्नुवीतेति भावः । अत एव-शकन्ध्वादिगणपाठान्ते ‘आकृतिगणोऽयं मार्तण्डः’ इत्युक्तिश्च संगच्छते । शकन्ध्वादिशब्दरूपनिष्पत्त्यनुगुणं तेषु शब्देषु टेः पररूपं वाच्यमिति वार्तिकार्थः । अत्राप्रकृतयोः श्रुतिशाब्दोक्त्योराहेति क्रियायामन्वयः। श्लेषोपस्कृतेयम् ॥

 यथा वा--

 सुरवरमाणिक्यं ननु सुरवरगाणिक्यमपि वृषाद्रिमणे । सेवाते तव लक्ष्मीं मागाभिन्ने इमे खलु समाने ॥ ५३१ ॥

 ननु वृषाद्रिमणे ! सुरवरमाणिक्यं इन्द्रनीलरत्नं सुरवराणां देवोत्तमानां गाणिक्यं गणिकासमूहोपि ‘गणिकाया यञिति वक्तव्यम्’ इति गणिकाशब्दसमूहार्थे यञ् । ‘गणिकादेस्तु गा-