पृष्ठम्:अलङ्कारमणिहारः.pdf/३१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
312
अलंकारमणिहारे

णिक्यम्' इत्यमरः । तव लक्ष्मीं शोभां पक्षे श्रियमित्यर्थः । तव लक्ष्मीमित्यनेन 'विष्णोश्श्रीरनपायिनी' इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्यं व्यञ्जितम् । “ तवैवोचितया तव श्रिया' इत्येतदत्रानुसंहितम् । सेवाते भजेते । इन्द्रनीलप्रभाया अपि तव दिव्यविग्रहशोभा सुतरामतिशेते इति भावः । पक्षे रम्भाद्यप्सरोनिवहः किंकरीभूय तव दिव्यमहिषीं वरिवस्यतीति भावः। इमे सुरवरमाणिक्यसुरवरगाणिक्ये भिन्ने परस्परविलक्षणे मा गाः मा ज्ञासीः ‘ये गत्यर्थास्ते ज्ञानार्थकाः '। कुतः ? इमे समाने तावकलक्ष्मीसेवनरूपधर्मवत्तया अन्योन्यं तुल्ये खलु । पक्षे इमे सुरवरमाणिक्यसुरवरगाणिक्यरूपे पदे मागाभिन्ने इति समस्तं पदं, मागावर्णाभ्यामेव भेदवती परस्परविलक्षणे इत्यर्थः । समाने अन्यवर्णानुपूर्व्या तुल्ये खलु । अत्राप्यप्रकृतयोस्सु रवरमाणिक्यसुरवरगाणिक्ययोर्भगवल्लक्ष्मीकर्मकसेवनक्रियायाम न्वयः पूर्ववत् ।

 हरिरुचिकृतपरिभवभरचिन्तादन्तुरनिजान्तरङ्गाणाम् । निश्चेतनताऽऽविरभूदिन्दीवरजलधरेन्द्रनीलानाम् ॥ ५३२ ॥

 अत्र गुणः, आविर्भावक्रियायास्साक्षाद्धर्मिभिरनन्वयात्। 'चिन्तादन्तुरनिजान्तरङ्गाणि । सुतरां पर्यम्लासिषुः' इति द्वितीयतृतीयपादयोः 'इन्दीवजलधरेन्द्रनीलानि' इति तुर्यपादस्य च कल्पने क्रिया । ‘दधते निश्चेतनताम्’ इति तृतीयपादे कृते गुणविशिष्टा क्रिया । एवमुत्तरत्र यथासंभवमूह्यम् ॥

 महसा तवासुराणां मलीमसे मानसे च वदने च ।