पृष्ठम्:अलङ्कारमणिहारः.pdf/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
अलंकारमणिहारे

 अथोक्तेषु प्रभेदेषु अनुगतप्रवृत्तिनिमित्तविरहात्कथमतिशयोक्तिपदवाच्यत्वमिति चेदत्राहुः-- तावत्प्रभेदान्यतमत्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति प्राञ्चः । अन्ये तु -संबन्धे असंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नातिशयोक्तिः ईदृशातिशयस्य रूपकदीपकोपमापह्नुत्यादिषु स्वभावोक्तिभिन्नेषु प्रायेण सर्वेष्वलंकारेषु सद्भावात् । न हि यथाऽवस्थितवस्तुकथनेऽस्ति काचिद्विच्छित्तिः कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तरतानापतेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य तस्यैवान्यत्वं यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनं कार्यकारणपौर्वापर्यविपर्ययश्चेत्येतदन्यतमत्वमतिशयोक्तित्वमित्याहुः । न व्यास्तु उपमानेनोपमेयस्य निगीर्याध्यवसानमेवातिशयोक्तिः । प्रकारान्तरे त्वतिरिक्तालंकारान्तरकल्पनमेवोचितम् । न ह्येतच्चतुष्टयासाधारणातिशयोक्तिलक्षणं संभवि, येनैकधर्मावच्छिन्नत्वेनैकालंकारतोच्येत । न चैतदन्यतमत्वमेव सर्वानुगतमस्तीति वाच्यम् । विच्छित्तिवैलक्षण्यसद्भावेऽन्यतमत्वस्याप्रयोजकत्वात् । अन्यथा उपमानरूपकादिकतिपयान्यतमत्वं सकलान्यमत्वं वाऽतिशयोक्तिलक्षणं विधाय उपमादीनामप्येतद्भेदापादनस्य सुवचत्वात् । न चातिरिक्तालंकारकल्पने गौरवमिति वाच्यं, प्रधानोत्कर्षकत्वरूपस्यालंकारत्वस्य त्वयाऽप्यङ्गीकारात् । पदार्थान्तरस्य च मयाऽप्यकल्पनात् । अलंकारविभाजकोपाधिपरिगणनस्य च पौरुषेयत्वादिति वदन्ति ॥

 वस्तुतस्तु-- रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोपनिश्चयविषयत्वमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्तं, भ्रान्तिवारणायाहार्येति । उत्प्रेक्षानिरासाय निश्चयेति ।