पृष्ठम्:अलङ्कारमणिहारः.pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
282
अलंकारमणिहारे

 यथा--

 तिमिरनिरासपटीयान्कमलानामावहन्महामोदम् । कर्दममर्दयतितमां दुर्दममम्भोजबान्धवो द्युतिमान् ॥ ४८९ ॥

 अत्र हि अम्भोजबान्धवत्वेन कौस्तुभस्य निगरणे तिमिरनिरासेत्यादिपादद्वयगते द्वे विशेषणे तदनुग्रहार्थं विषयविषयिणोस्साधारणधर्मतया साक्षादुपात्ते । तृतीयमपि तृतीयचरणगतमशाब्दिकानां नये । शाब्दिकानां तूपात्तया अम्भोजबान्धवाभिन्नकर्तृकया कर्दममर्दनक्रिययोन्नीतं तादृशकर्तृत्वं साधारणधर्मत्वेन तयोर्विषयविषयिणोस्स्थितम् । प्रथमे चरणे अज्ञानस्य तिमिरत्वेन, द्वितीये जननयनानां कमलतया, तृतीये दुरितस्य कर्दमत्वेन च निगरणं तस्मिन्नेवानुग्राहकतया । एवंच सावयवेयमतिशयोक्तिः ॥

 यथा वा--

 तिमिराधःकृतमिन्दुं कमलयुगं तत्र सततसंफुल्लम् । कलयन्ती भाति घने माया देवस्य काऽप्यविज्ञेया ॥ ४९० ॥

 अत्र तिमिरेन्दुकमलघनमायारूपैर्विषयिभिश्चिकुरवदननयनभगवच्छ्रियो विषया निगीर्णाः । अत्र ‘जनकस्य कुले जाता देवमायेव निर्मिता’ इत्येतदनुसन्धेयम् । माया नाम विचित्रकार्यकरी शक्तिः ।

 यत्र ह्यनुग्राहकं न निगरणान्तरं किंतु शुद्धं साधारणधर्मादि सा निरवयवा ॥