पृष्ठम्:अलङ्कारमणिहारः.pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
283
अतिशयोक्तिसारः (१५)

 यथा-

 मधुरान् सुधाप्रवाहान्विधुशिशिरानबुधजनदुरवगाहान् । प्रमुषिततापव्यूहन् प्रविगाह्य जहामि सकलसंमोहान् ॥ ४९१ ॥

 अबुधजनैः अज्ञजनैः देवेतरैश्व दुरवगाहान्, अत्र श्रीनिवासदयाविभवा निगीर्णाः । प्रथमोदाहरणे अम्भोजबान्धवपदेन साध्यवसानलक्षणया शक्यलक्ष्योभयानुगततिमिरनिरासपटीयस्त्वाद्युपात्तधर्मपुरस्कारेणोपस्थिते कौस्तुभे शक्त्युपस्थितस्याम्भोजबान्धवत्वविशिष्टस्याभेदसंसर्गेणान्वयः । शक्त्युपस्थितयोः कृतीष्टसाधनतयोरिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोस्तात्पर्यवशादन्वयाभ्युपगमे बाधकविरहात् । एवं च अम्भोजबान्धवाभिन्नः तिमिरनिरासपटीयस्त्वादिमानिति बोधादियमभेदातिशयोक्तिरित्युच्यते । एवमनन्तरोदाहरणयोरपि । नन्वेवं सति किमस्य रूपकाद्वैलक्षण्यमिति चेन्मैवम् । रूपके विषयिभेदव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्पष्टत्वात् । यदा तु नाभेदभाने तात्पर्ये किंतु भेदभाने तदा ताद्रूप्यस्यैव बोधात्ताद्रूप्यातिशयोक्तिर्वक्ष्यते । अत्र लक्षणे विषयं निगीर्य विषय्येवाध्यवस्यत इति सामान्यत एवोक्तेश्शुद्धसाध्यवसानलक्षणया अभेदोपचारेऽप्यतिशयोक्तिरेव ॥

 तत्र धर्मे धर्म्यभेदाध्यवसायो यथा--

 सकलजगदग्रगण्यं सरसिजनयनस्य परिणतं पुण्यम् । अस्मादृशां शरण्यं विस्मयनीयं विभातु लावण्यम् ॥ ४९२ ॥