पृष्ठम्:अलङ्कारमणिहारः.pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
250
अलंकारमणिहारे

 यथावा--

 स्वामिंस्त्वन्मुखहिमरुचिधामकृतात्परिभवादिव नितान्तम् । जीवनभङ्गविलोला कमलाळी वहति किं नु साऽरसताम् ॥ ४३३ ॥

 हे स्वामिन् ! त्वन्मुखमेव हिमरुचिः आत्मप्रत्यनीकश्चन्द्रमाः कमलाळीध्वंसनोपकरणवत्त्वद्योतनाय हिमरुचिशब्दः । तस्य धाम्ना तेजसा प्रभावेण च ‘गृहदेहत्विट्प्रभावा धामानि' इयमरः । कृतात् परिभवादिव साऽरसतामित्यत्र सा अरसतामिति छेदः, सा अतिरमणीयतया प्रसिद्धा कमलाळी पद्मपङ्क्तिः । जीवनस्य जीवितस्य भङ्गे विलोला विशेषेण सक्ता 'सतां म्लाने माने' इत्याद्युक्तरीत्या जीवितपरित्यजनकृतसंकल्पेत्यर्थः । पक्षे जीवनस्य सलिलस्य भङ्गैस्तरङ्गैः विलोला चञ्चला `लोलश्चलसतृष्णयोः' इत्यमरः । अरसतां सर्वविषयवैरस्यं वहति । परपरिभवदूनानां जीवितत्यजनदत्तदृष्टीनां सर्वत्रानास्थैव भवतीति भावः । अन्यत्र सारसतामिति समस्तं पदम् । सरोजतामिति वास्तवार्थः । अत्र परिभवरूपा क्रिया अरसतावहनं प्रति हेतुत्वेन संभाव्यते । तदेव तत्र निमित्तम् । इयं श्लेषसंकीर्णा ॥

 द्रव्यहेतूत्प्रेक्षा यथा--

 बलवानपि बहुपादोऽप्यलमहिभूभृन्महागताढ्योपि । नेष्टे पदमपि चलितुं स्वस्मिन्विश्वंभरेण किल वसता ॥ ४३४ ॥