पृष्ठम्:अलङ्कारमणिहारः.pdf/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
251
उत्प्रेक्षासरः(१४)

 बलवान् सामर्थ्यवानपि । पक्षे स्थौल्यवानपि 'स्थौल्यसामर्थ्यसैन्येषु बलम्' इत्यमरः । बलसत्त्वेऽपि करणविरहे कथं गमनसंभव इत्यत आह--बह्विति । बहुपादोऽपि बहुचरणोपि । पक्षे बहुप्रत्यन्तपर्वतोपि । अत एव महत् श्लाघ्यं गतं गमनं, भावे क्तः । तेन आढ्योपि । पक्षे महान्तः अगाः तरवः यस्मिंस्तथोक्तः तस्य भावः महागता तया आढ्योपि । अहिभूभृत् शेषाद्रिः शेष इत्यपि गम्यते । स्वस्मिन् वसता विश्वंभरेणेव पदमपि चलितुं नेष्टे न शक्नोति । अत्र स्वस्मिन्नवस्थितो विश्वंभरो द्रव्यं अहिभूभृतो निश्चलतां प्रति हेतुत्वेनोत्प्रेक्ष्यते । सा निश्चलतैव निमित्तमुपात्तम् ॥

 यथावा--

 निर्मलदृष्टिप्रसरणनिरोधनिर्माणनिपुणनिजमहिमा । चन्द्रादपरस्मादिव सान्द्रा शौरेस्तमस्ततिर्गळति ॥ ४३५ ॥

 निर्मला भ्रमविप्रलम्भादिसंभावनादवीयसी । पक्षे विशदाया दृष्टिः ज्ञानं, पक्षे दृक् ‘दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः । तस्याः प्रसरणस्य निरोधनिर्माणे निपुणः निजः महिमा महत्त्वं यस्यास्सा । तमस्ततिः अज्ञानसंततिः । ध्वान्तसंहतिश्च । अत्र तमस्ततिगळनं प्रति चन्द्रो द्रव्यं हेतुतयोत्प्रेक्ष्यते । तमस्ततिगळनमेव निमित्तम् । श्लेषोत्तम्भितेयम् । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं न संभवतीति वदन्तः प्रत्युक्ताः ॥

 यथावा--

 कलधौतगिरिं भवता सुश्रीकैलासमृद्धमधिवसता । अपरेणेव मुरारे श्रीदेनालंकृतोत्तराशा सा ॥