पृष्ठम्:अलङ्कारमणिहारः.pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
244
अलंकारमणिहारे

 तदेतत् शार्ङ्गं शिरसि मूर्ध्नि अग्रे च ‘शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मूर्ध्नि च' इति रत्नमाला । अधिरूढया ज्यया भूम्या मौर्व्या च । ‘ज्या मौर्वीभूमिमातृषु' इति रत्नमाला । अनन्तं शेषं संभावयामि उत्प्रेक्षे । अत्र शार्ङ्गे द्रव्ये शेषो द्रव्यं तादात्म्येन संभाव्यते । तत्र च ज्याशब्दप्रतिपाद्यमौर्वीभूमिरूपार्थद्वयाभेदाध्यवसायेन शिरोधिरूढभूमिरूपद्रव्यं निमित्तमुपात्तम्

 अनुपात्तनिमित्तद्रव्यभावोत्प्रेक्षा यथा--

 भित्वा द्वेषाद्भानोर्बिम्बं मध्ये ततो विनिर्गच्छन् राहुरिव बाहुरच्युत तव मणिकेयूरवेष्टितो भाति ॥

 अत्र भगवतः केयूरवेष्टिते बाहौ मध्यभेदनपूर्वकभानुमण्डलविनिर्गतो राहुर्द्रव्यं तादात्म्येन संभाव्यते । तत्र न किंचिदपि निमित्तमुपात्तम् ॥

 एवं जात्यादिभावस्वरूपोत्प्रेक्षादिक्प्रदाशता । अथाभावाभिमानवत्यस्स्वरूपोत्प्रेक्षाः दिङ्मात्रमुदाह्रियन्ते ॥

 तत्र जात्यभावस्वरूपोत्प्रेक्षा यथा--

 नीलैर्निजरुचिजालैर्दिनकरशून्यामिवाचरन्वन्याम् । फणिपतिशिखरिणि तस्यां रमयति रात्रिंदिवं रमां शौरिः ॥ ४२१ ॥

 तस्यां वन्यायामित्यर्थः । अत्र दिनकरशून्यामिति जात्यभाव उत्प्रेक्ष्यते । तत्र नीलरुचिरूपगुणो निमित्तम् ॥

 यथा वा--

 कञ्चुकिगिरिमहिमभरैः कञ्चुकितं वसुमतीतलं