पृष्ठम्:अलङ्कारमणिहारः.pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
243
उत्प्रेक्षासरः(१४)

'अनन्तं गगने क्लीबे पुमान्केशवशेषयोः' इति रत्नमाला । अत्र नीलत्वादिर्गुण उपात्तः ॥

 उपात्तक्रियानिमित्तकद्रव्यभावोत्प्रेक्षा यथा--

 स्वात्युज्ज्वलत्वहेतोः प्रमोदवर्षं ददात्यलं यदयम् । त्वन्नासामणिमेनं शुक्रं मन्ये ततोऽम्बुनिधिकन्ये ॥

 यत् यस्मात् अयं त्वन्नासामणिः नासिकाभरणमौक्तिकं 'रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च' इत्यमरः । स्वात्यां स्वातीनक्षत्रे उज्ज्वलत्वं अनस्तगत्वेन प्रकाशमानत्वं तस्माद्धेतोः । पक्षे स्वस्य आत्मनः अत्युज्ज्वलत्वहेतोः औज्ज्वल्यसद्भावाद्धेतोः अलं पर्याप्तं प्रदत्तो मोदो येन तत् प्रमोदं ‘प्रादिभ्यो धातु जस्य वाच्यो वा चोत्तरपदलोपः' इति दत्तशब्दस्य लोपः । वर्षं वृष्टिं ददाति ।

वरुणस्य दिशि स्वात्यां चरन्कविरनस्तगः।
संपूर्णां तनुते वृष्टिं जगदानन्ददायिनीम् ॥

इत्युक्तेरिति भावः । पक्षे प्रमोदवर्षं अविच्छिन्नमानन्दमित्यर्थः । ददाति । ततः कारणात् त्वन्नासामणिं शुक्रं भार्गवं मन्ये । अत्र नासामणौ जातौ शुक्रो द्रव्यं तादात्म्येन संभाव्यते । तत्र च उपपादितश्लेषकल्पिताभेदस्वात्युज्ज्वलत्वहेतुकप्रमोदवर्षदानलक्षणक्रियारूपं निमित्तमुपात्तम् ।

 उपात्तद्रव्यनिमित्तकद्रव्यभावस्वरूपोत्प्रेक्षा यथा--

 शार्ङ्गं यदेतदहिगिरिशृङ्गविहारिन्विभाति तव भूमन् । संभावयाम्यनन्तं तदेतदधिरूढया ज्यया शिरसि ॥ ४१९ ॥