पृष्ठम्:अलङ्कारमणिहारः.pdf/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
239
उत्प्रेक्षासरः(१४)

वात्सल्यम् । धाम किमप्यतिनैल्यं श्रीमत्फणिशिखरिशिखरगमतुल्यम् ॥ ४१० ॥

 इत्यादावपि गुणभावस्वरूपोत्प्रेक्षा अनुपात्तनिमित्ता बोध्या । महतो मन्दैस्सह नीरन्ध्रसंश्लेषणस्वभावत्वं सौशील्यत्वम् । दोषतिरस्कारिप्रीतित्वं वात्सल्यत्वम् । अतिनैल्यमिति बहुव्रीहिः ॥

 एवं गुणभावस्वरूपोत्प्रेक्षा दिक्प्रदर्शिता । अथ क्रियाभावस्वरूपोत्प्रेक्षा ।

 तत्र उपात्तजातिनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा--

 शृङ्गाग्रपतिनिजझरशीकरनिकरैर्मरुत्प्रसरनुन्नैः । अर्पयति वियद्गङ्गा पुष्पाञ्जलिमिव फणीशगिरिपतये ॥ ४११ ॥

 अत्र पुष्पाञ्जलिसमर्पणरूपक्रियाभावस्वरूपोत्प्रेक्षायां मरुत्प्रसरनुन्नशीकरनिकररूपजातिर्निमित्तमुपात्तम् । पुष्पाञ्जलिमर्पयतीत्यत्राञ्जलावर्पणस्य बाधात्तद्विशेषणेषु पुष्पेष्वन्वयः । स्वर्गी ध्वस्त इत्यादिवत् । अञ्जलिस्थपुष्पाणि विकिरतीत्यर्थः । 'सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामतः' इति हि न्यायविदः । अत एव 'सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः' इत्यादिप्रयोगास्संगच्छन्ते । वक्तव्यान्तरं तु लक्ष्मीसहस्रप्रादुर्भावस्तबकरत्नप्रकाशिकायां निरूपितमस्माभिः ॥

 उपात्तगुणनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा--

 पटुतरशशधरविशदस्फटिकशिलाप्रचुरशिख-