पृष्ठम्:अलङ्कारमणिहारः.pdf/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
238
अलंकारमणिहारे

 मणयोऽत्र पद्मरागा विवक्षिताः । अत्र पद्मरागकुले जातौ आरुण्यगुणस्तादात्म्येन संभावितः । औज्ज्वल्यादिकं निमित्तमनुपात्तम् ॥

 यथा वा--

 रसनारुण्याक्रमणाद्दशनाळ्यां स्थातुमन्तरमलब्ध्वा । तत उद्गतं प्रतीमस्सितगुणमखिलाम्ब तव मितं हसितम् ॥ ४०७ ॥

 अत्र स्मिते जातौ सितगुणस्य तादात्म्येन संभावनं, तत्र निमित्तं किमप्यनुपात्तम् ॥

 यथा वा--

 अन्तरमानादुच्चैरुद्वान्तं हस्तयोरिवारुण्यम् । तत्रोल्लसदब्जयुगं चित्ते करवाणि भुवनजननि तव ॥ ४०८ ॥

 अत्र पद्मे जातौ आरुण्यगुणोत्प्रेक्षा अनुपात्तनिमित्ता ॥

 यथा वा--

 मन्ये कौस्तुभरत्नं प्रतियत्नं श्रीशवक्षसोऽनूत्नम् । श्रीतनुसर्जनशेषं धात्रा लावण्यराशिमुपनिहितम् ॥

 अत्र कौस्तुभरत्नस्य लावण्यराशिरूपगुणभावस्वरूपोत्प्रेक्षायां दर्शनीयत्वादिर्गुणोऽनुपात्तः ॥

 एवम्--

 मूर्तिमदिव सौशील्यं स्फूर्तिमदिव भावयामि