पृष्ठम्:अलङ्कारमणिहारः.pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
177
संदेहसरः ‍‌‍‌‍‌(१२)

 आकाशराजनृपतेरालयगर्भं तदा निरीक्ष्य नरैः । जलधेर्जठरं किमिदं कनकाचलसानु वेति सन्दिदिहे ॥ ३०९ ॥

 अत्र तदेति प्रकरणसाह्यवशादाकाशराजगृहेण धर्मिणाऽsक्षिप्तायास्तत्कालावतीर्णायाः भगवत्याः पद्मावत्या जलधिजठरादिसंशयकोटिद्वयाक्षिप्तस्साधारणो मणिः प्रतिबिम्बभूतः । इमौ च बिम्बप्रतिबिम्बभावानिर्दिष्टावपि प्रतीयमानौ सादृश्यं प्रयोजयतः । एतेनानुगाम्येव धर्मो लुप्तस्सम्भवति न तु बिम्बित इति वदन्तः परस्ताः ॥

 अयं च क्वचिदनाहार्यः क्वचिदाहार्यः, यत्र हि कविना परनिष्ठस्संदेहो निबध्यते तत्र प्रायेणानाहार्यः । यथा 'किं नु तुषारासारः’ इत्यादिषु प्रागुदाहृतेषु पद्येषु ॥

 यथा--

 किमु घनलग्ना सौरी मरीचिरथवेन्द्रनीलमणिखचिता । कुरुविन्दलतेति रमा हरिहृदयगता न केन वाऽशङ्कि ॥ ३१० ॥

 अत्राप्यनाहार्य एव संदेहः । तत्र जनस्य संदिहानस्य ग्राह्यानिर्णयात् । अत्र च लग्ना खचितेत्येतयोः गतेत्यस्य च वस्तुप्रतिवस्तुभावः तत्करम्भितो घनेन्द्रनीलमण्योः हरिहृदयस्य च बिम्बप्रतिबिम्बभाव इति विशेषः ॥

 यत्र च स्वनिष्ठ एव संदेहो निबध्यते तत्राहार्यः । यथा 'हरितोऽध्यैष्ट गिरि किम्’ इत्यादिप्रागुदाहृतपद्येषु ॥

 ALANKARA
23