पृष्ठम्:अलङ्कारमणिहारः.pdf/१८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
176
अलंकारमणिहारे

तस्य कोट्योर्गङ्गाज्योत्स्नयोश्चैक एवानुगामी धर्मः, प्रतीयमानत्वादनिर्दिष्टः । एवं ‘जलदभ्रमेण लग्ना' इत्यादिपद्येऽपि । निर्दिष्टस्तु 'हरितोऽध्यैष्ट गिरिः किम्' इति प्रागुदाहृत एव श्लोके तत्र महत्त्वं साधारणो धर्मः । धर्मिणो भगवदौन्नत्यस्य कोट्यन्तरस्य गिर्यौन्नत्यस्य च साक्षान्निर्दिष्टः । धर्मस्य पृथङ्निर्देशोपि 'किं नखरुचिवलयं ज्वलत्’ इति प्रागुदाहृतपद्य एव । तत्र हि नखरुचिवलयस्य ज्वलत्त्वं, दोस्तेजश्शिखावलयस्यारुणरुचित्वं च सह चक्रस्य पृथगनुगामी समानो धर्मः । अत्रैव ज्वलत् अरुणरुचीति विशेषणद्वयानुपादाने स एवानिर्दिष्टः ॥

 बिम्बप्रतिबिम्बभावापन्नो यथा--

 प्रतिबिम्बितरविबिम्बं हरिमणिशिखरं सकौस्तुभं च हरिम् । मुनयोऽभिवीक्ष्य फणधरगिरिधरणौ नन्तुमेव सांशयिकाः ॥ ३०७ ॥

 अत्र प्रतिबिम्बितरविबिम्बत्वसकौस्तुभत्वरूपो धर्मः बिम्बप्रतिबिम्बभावापन्नः ॥

 यथावा--

 सहविद्युन्नु तटित्वान् सद्युमणिर्वा हरिन्मणीशिखरः। सकमल इति सन्दिदिहे समणिकिरीटस्सरीसृपगिरीन्दुः ॥ ३०८ ॥

 अत्र विद्युद्द्युमणी बिम्बभूतौ लक्ष्मीकिरीटयोः प्रतिबिम्बकोट्योः पृथङ्निर्दिष्टौ । शिखरशब्दः पुल्लिङ्गोप्यस्ति 'शिखरं वा ना' इत्यमरानुशासनात् । 'अलगितवतो विन्ध्यशिखरान्’ इति मुरारिप्रयोगश्च ॥