पृष्ठम्:अलङ्कारमणिहारः.pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
142
अलंकारमणिहारे

भिरपि लक्षितम् । उच्छृङ्खलाः पुनरारोपमात्रं रूपकमभिदधाना ईदृशस्थलेऽपि रूपकमेवाभिदधते । वस्तुतस्त्विह वक्ष्यमाणो हेतुहेतुमदैक्यरूपो हेत्वलङ्कार एव ॥

 ननु--

हरिभक्तिबीजराजेरिरिणैश्शुभशीलबालतृणहरिणैः।
शमदमवनदवदहनैरलं खलैरतिविशृखलैर्दृष्टैः ॥

इत्यत्र इरिणहरिणदवदहनैः खलानां किं साधर्म्यं येन तेषामपि रूपकमुदीर्यत इति चेत्--हरिभक्तिबीजराज्योः शुभशीलबालतृणयोः शमदमवनयोश्च ताद्रूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं हरिभक्तिरूपबीजराज्याद्यभाववत्त्वमेव तदिति गृहाण । एवमपि इरिणादीनां खलानां च ताद्रूप्यसिद्धौ इरिणादिरूपखलावृत्तित्वेन हरिभक्तिबीजराज्यादीनां ताद्रूप्यं सिध्येत् हरिभक्तिबीजराज्यादीनां ताद्रूप्यसिद्धौ च हरिभक्तिरूपबीजपराज्यादिशून्यत्वेन इरिणादीनां खलानां च ताद्रूप्यमित्यन्योन्याश्रयो न शङ्कनीयः । सर्वसिद्धेः कल्पनामयत्वेन कल्पनायाश्च स्वप्रतिभाकल्पलताधीनत्वात् । शिल्पवेदिभिरन्योन्यावष्टम्भमात्रायत्तस्थितिकाभिरुपलेष्टकाभिर्विचित्रभवनविशेषनिर्मितेश्चेति ॥

 अत्रेदमवधेयम्- चमत्कारविशेषाधायकतया रूपकसंदोहात्मकमपि सावयवरूपकं रूपकालंकारभेदगणनायां गण्यते यथा वज्ररत्नालंकारभेदगणनायामेकं वज्रचूडारत्नमिव संदोहात्मकवज्रकटकाङ्गदादयोऽपि गण्यन्ते । अन्यथा मालारूपस्योपमादेस्तद्भेदगणनेऽगणनाप्रसङ्गात् । एतेन गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न संघातात्मकं सावयवं गणनीयमिति परास्तम् । एव-