मस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महद्वैलक्षण्यमिति ॥
विमर्शिनीकारस्तु रूपकनिरूपणावसरे ‘क्वचिच्चाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वकमारोप्यमाणत्वेन तदीयस्य वाऽभेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते’ इत्यभाणीत् । तत्राद्यस्योदाहरणं पर्यस्तापह्नुतिनिरूपणावसरे दर्शयिष्यति । द्वितीयतृतीययोरुदाहरणे तु कुवलयानन्दकृन्मतेन रूपकनिरूपणावसरे दर्शिते न्यूनाधिकाभेदताद्रूप्यरूपकोदाहाहरणे एवेति ध्येयम् ॥
अथास्य ध्वनिः.
तत्र शब्दशक्तिमूलो यथा--
विमतेषु त्वं जिष्णुर्दण्डधरश्चासि पुण्डरीकाक्ष । विनतेषु तु प्रचेता धनदोऽपि च भवसि कनकशिखरिमणे ॥ २४० ॥
कनकशिखरी शेषाद्रिरित्यवोचाम । प्रसन्नं चेतो यस्य सः प्रचेताः । ‘प्रादिभ्यो धातुजस्य' इत्युत्तरपदलोपः । अत्र प्रकरणेन शक्तिनियन्त्रणेऽपीन्द्रयमवरुणकुबेराद्यभेदा भगवति व्यज्यन्ते ॥
यथा वा--
ऐशानीमाशां त्वं धत्से धृतपद्मको महोत्सेधः ॥ करपुष्करलुलिताब्जो देव त्वं सुप्रतीक एवासि ॥