पृष्ठम्:अलङ्कारमणिहारः.pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
126
अलंकारमणिहारे

 एवमष्टविधं प्राचां मते रूपकमिष्यते ॥ ४३ ॥

 तत्परंपरितं द्विधा । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरंपरितम् । तदुभयं च केवलं मालारूपं द्विविधम् । अत्र परंपरितरूपके उत्तररूपकस्य पूर्वरूपकं प्रति हेतुत्वमिति मङ्खुकादयो मन्यन्ते । तेषामयमाशयः--विद्धन्मानसहंस' इत्यादौ राजादेः वर्ण्यत्वेन पुरस्स्फूर्तिकतया तत्र हंसाद्यारोपपूर्वकमेवावर्ण्ये विद्वन्मानसादौ पश्चात् श्लेषेण सरोविशेषाद्यारोपः । एवमश्लिष्टपरम्परितेऽपीति ॥ मम्मटादयस्तु-- पूर्वरूपकस्योत्तररूपकहेतुत्वं मन्वते । यदाहुः--'एवमारोपनिमित्तो हंसत्वाद्यारोपः' इति । तेषामयं भावः--'विद्वन्मानसहंस' इत्यादौ मानसेत्यादिश्लेषस्य प्राथमिकतया तन्मूलकार्थद्वयाभेदाध्यवसायोपजीविरूपकस्य प्रथमप्रतीत्या तद्बुद्धेरुत्तररूपकबुद्धिं प्रति हेतुत्वं युक्तमिति । हेतुहेतुमद्भावापन्नैकविषय्यन्वितान्यविषयिकत्वं परम्परितत्वमित्यस्मदीयलक्षणने मतद्वयस्यापि संग्रहो भविष्यति ॥

 तत्र केवलं श्लिष्टपरंपरितं यथा--

 भज हृदय रचितयत्नं भुजगाधिपभूमिभृच्छिरोरत्नम् । पुरुषं कमपि प्रत्नं प्रसाधनं तव ततोऽपि किमु नूत्नम् ॥ २१० ॥

 अत्र द्वयोरप्यारोपयोस्समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽपि भूमिभृत् शैल एव भूमिभृत् राजेति श्लेषमूलकेनारोपेण भगवति शिरोरत्नतादात्म्यारोपस्य समर्थनीयतायां कवेरा-