पृष्ठम्:अलङ्कारमणिहारः.pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
125
रूपकसर‌ः‍‌‌‍ (७)

किमपि । तथा च परंपरितसंकीर्णमेवेदं मालानिरवयवरूपकमिति ध्येयम् । दृश्यते ह्येकालंकारमुख्योदाहरणेष्वप्यलंकारान्तरसंकीर्णता । यथा--'ज्योत्स्नाभस्म' इति सावयवरूपकोदाहरणादौ ‘लाञ्छनस्य छलेन' इत्यादिकैतवापह्नुत्यादिसंकीर्णता ॥

 इदं तु शुद्धमालानिरवयवस्योदाहरणम्--

 नमदमरमस्तमकुटं कमलाभूमीकराग्रलीलाब्जम् । तच्चरितश्रोतृजनश्रोत्रवतंसं श्रये हरेश्चरणम् ॥ २०८ ॥

 नीलाम्बुजसंवननं कालाम्बुदकार्मणं तमालश्रीः । व्यालाचललीलारसलोला मूर्तिर्हरेर्हरत्यार्तिम् ॥ २०९ ॥

 संवननं वशक्रिया । कार्मणं मूलकर्म ‘वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । श्रीः संपत् । अत्राद्ये उदाहरणे हरिचरणे विषये मकुटलीलाब्जवतंसमात्रारोपः । द्वितीये तु हरिमूर्तौ नीलाम्बुजसंवननकालाम्बुदकार्मणतमालसंपन्मात्रारोप इति शुद्धमालानिरवयवम् । एवमेव वैयधिकरण्येनारोपे ‘द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यम्’ इत्यादावपि शुद्धमालानिरवयवत्वं बोध्यमित्यलं पल्लवितेन ॥

 तत्परंपरितं च विभजते--

श्लिष्टाश्लिष्टविभेदेन तत्परंपरितं द्विधा ॥
केवलं मालिका चेति तद्द्वयं द्विविधं भवेत् ।