पृष्ठम्:अलङ्कारमणिहारः.pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
115
रूपकसर‌ः‍‌‌‍ (७)

 यथा वा--

 विततैश्शुभगुणकिरणैर्वितरन्सत्कोकलोकसम्मोदम् । फणिशिखरिमणिद्युमणिर्धरणिसुतामुखविकासकृज्जयति ॥ १९७ ॥

 धरणिसुता यज्ञार्थं भुवं शोधयता आकाशराजेन लब्धा भूतलादुद्गता धरण्याख्यस्वमहिषीहस्ते दत्ता तया संवर्धिता भगवता श्रीनिवासेन परिणीता पद्मावतीनाम्नी साक्षाल्लक्ष्मीति वाराहे वेंकटाचलमाहात्म्ये प्रसिध्यति । पूर्वस्मिन्नुदाहरणे कवेस्समर्थ्यत्वेनाभिमतस्य कृपायां नौत्वारोपरूपकस्याक्षेपः । इह तु समर्थकत्वेनाभिमतस्य धरणिसुतामुखे पद्मरूपकस्याक्षेप इति विशेषः । एवंच समर्थ्यरूपकस्यैवाक्षेपो न समर्थकरूपकस्येति नाग्रहः कार्यः। एवमेव रसगङ्गाधरादावुदाहृतत्वात् । अत एवैकदेशविवर्तित्वसंज्ञाऽप्यस्य युज्यते । एकदेशे समर्थ्यरूपे अवयविनि समर्थकरूपे अवयवे वा विवर्तत इति तदर्थात् ॥

 इदं सावयवं द्विविधं श्लिष्टमपि दृश्यत इति विमर्शिनीकारः ॥

 तत्र समस्तवस्तुवृत्ति सावयवं श्लिष्टं यथा--

 मणिमयशिरस्सहस्रेणोत्तुङ्गस्साधुगुप्तबहुपादः । मणिकिरणरसनविसरः फणभृद्धरणीधरो भाति ॥

 मणिमयशिरस्सहस्रमेव मणिमयशिरस्सहस्रं तेन उत्तुङ्गः। साधु यथा स्यात्तथा गुप्ताः रक्षिताः गूढाश्च बहवः पादाः प्रत्यन्तपर्वताः येन तथोक्तः बहुपादा एव बहवश्चरणाः यस्य